________________
७२
श्रीविद्यानंदिस्वामिविरचिता
गतत्वे सर्वत्र सत्प्रत्ययः किं न स्यात् । प्रागभावादिषु तस्यास्तु तिरोधानान्न सत्प्रत्ययहेतुत्वमिति चेत् घटस्यापि पदार्थातरेषु तत्तिरोधानाद्धटप्रत्ययहेतुत्वं माभूत् । न चैवं सर्व सर्वत्र विद्यते इति वदतः सांख्यस्य किंचिद्विरुद्धं बाधकाभावात् तिरोधानाविर्भावाम्यां स्वप्रत्ययाविधानस्य क्वचिस्वप्रत्ययविधानस्याविरोधात् । किंच घटादिसामान्यस्य घटादिव्यक्तिष्वभिव्यक्तस्य तदंतराले चानभिव्यक्तस्य घटप्रत्ययहेतुत्वाहेतुत्वे स्वयमुररी. कुर्वाणः कथं न घटस्य स्वव्यंजकदेशेऽभिव्यक्तस्यान्यत्र चानभिव्यक्तस्य घटप्रत्ययहेतुत्वाहेतुत्वे नाभ्युपगच्छतीति स्वेच्छाकारी । स्यान्मतं नानाघटः सकृद्भिन्नदेशतयोपलभ्यमानत्वात् पटकटमुकुटादिपदार्थातरवदिति,तर्हि नाना सत्तायुगपदाधकाभावे सति भिन्नदेशद्रव्यादिष्पलभ्यमानत्वात् तद्वदिति दर्शनांतरमायातं न्यायस्य समानत्वात् । नहि विभिन्नदेशेषु घटपटादिषु युगपत्सत्वोपलंभोऽसिद्धःसंतोऽमी घटादय इति प्रतीतरबाधितत्वात् । व्योम्नानकांतिकोऽयंहेतुरितिचेन्न, तस्य प्रत्यक्षतोभिन्नदेशतयाऽतींद्रियस्य युगपदुपलंभाभावात् । परेषां युगपद्भिन्नदेशाकाशलिंगशब्दोपलंभासंभवाच्च नानुमानतोऽपि भिन्नदेशतया युगपदुपलंभोऽस्ति यतस्तेनानैकांतिकत्वं हेतोरभिधीयते । नानादेशाकाशलिंगशब्दानां नानादेशस्थपुरुषैः श्रवणादाकाशस्यानुमानात् युगपद्भिन्नदेशतयोपलंभस्य प्रसिद्धावपि न तेन व्यभिचारः साधनस्य तस्य प्रदेशभेदान्नानात्वसिद्धेः । निःप्रदेशस्य युगपद्भिन्नदेशकालसकलमूर्तिमद्रव्यसंयोगानामनुपपत्तेरेकपरमाणुवन्नचेयं सत्ता स्वतंत्रः पदार्थः सिद्धः पदार्थधर्मत्वेन प्रतीयमानत्वादसत्त्ववत् । यथैव हि घटस्यासत्वं पटस्यासत्त्वमिति पदार्थधर्मतया प्रतीयमानत्वान्नासत्त्वं स्वतंत्रः पदार्थः तथा घटस्य सत्त्वं पटस्य सत्वमिति पदार्थधर्मत्वेनोपलभ्यमानत्वात्सत्त्वमपि सर्वथा विशेषाभावात् । सर्वत्र घटःसन् पटःसन् इति प्रत्ययस्याविशेषादेकं