________________
६६
श्रीविद्यानंदिस्वामिविरचिताwwwwwwwwwmmmmmmmmmmmmmmmmmmm व्याप्तः, तेन तयोर्व्याप्तत्वसिद्धिः न हि विशेषणविशेष्यभावस्याभावे कयोश्चित्संयोगः समवायो वा व्यवतिष्ठते । क्वचिद्विशेषणविशेष्यमावाविवक्षायां तु संयोगसमवायव्यवहारो न विशेषणविशेष्यभावस्याव्यापकत्वं व्यवस्थापयितुमलं, सतोऽप्यर्थित्वादेर्विवक्षानुपपत्तेव्यापकत्वप्रसिद्धेः । ततःसंयोगः समवायोवा अन्योवाऽविनाभावादिः संबंधस्तस्यैव विशेषणविशेष्यभावस्य विशेषोऽस्तु । ननु च समवायस्य स्वतंत्रत्वादेकत्वाच्च कथमसौ तद्विशेषः स्थाप्यत इतिचेन्न समवायस्य स्वतंत्रत्वे सर्वथैकत्वे च दोषसद्भावात् । तथाहि--
स्वतंत्रस्य कथं तावदाश्रितत्वं स्वयं मतं । तस्याश्रितत्ववचने स्वातंत्र्यं प्रतिहन्यते ॥ ५९॥ समवायिषु सत्स्वेव समवायस्य वेदनात् । आश्रितत्वे दिगादीनां मूर्तद्रव्याश्रितिर्न किं ॥६०॥ कथं चानाश्रितः सिद्धयेत्संबंधः सर्वथा क्वचित् । स्वसंबंधिषु येनातः संभवेनियतस्थितिः ॥६१ ॥ एक एव च सर्वत्र समवायो यदीष्यते । तदा महेश्वरे ज्ञानं समवैति न खे कथं ॥ ६२॥ इहेति प्रत्ययोऽप्येष शंकरे न तु खादिषु । इति भेदःकथं सिद्धयेन्नियामकमपश्यतः॥ ६३॥ न चाचेतनता तत्र संभाव्येत नियामिका । शंभावपि तदास्थानात् खादेस्तदविशेषतः॥ ६४॥ नेशो ज्ञाता न चाज्ञाता स्वयं ज्ञानस्य केवलं । समवायात्सदा ज्ञाता यद्यात्मैव स किं स्वतः ॥६५॥