________________
आप्तपरीक्षा। बहिरर्थविषयत्वे स्वार्थासंवेदकत्वात् सर्वचित्तचैत्तानामात्मसंवेदनं प्रत्यक्षमिति वचनं विरोधमध्यासीत् बहिराकारतयोत्पद्यमानत्वात् । सुगतज्ञानस्य बहिरर्थविषयत्वोपचारकल्पनायां न परमार्थतो बहिरर्थविषयं सुगतज्ञानमतस्तत्वत इति विशेषणमपि नासिद्धं साधनस्य । नापि विरुद्धं विपक्षएव वृत्तेरभावात् कपिलादौ सपक्षेऽपि सद्भावात् । ननु तत्वतोविश्वतत्वज्ञताऽपेतेन मोक्षर्मागस्य प्रतिपादकेन दिग्नागाचार्यादिना साधनस्य व्यभिचार इति चेन्न । तस्यापि पक्षीकृतत्वात् । सुगतग्रहणेन सुगतमतानुसारिणां सर्वेषां गृहीतत्वात् । तर्हि स्याद्वादिनाऽनुत्पन्नकेवलज्ञानेन तत्वतो विश्वतत्वज्ञताऽपेतेन सूत्रकारादिना निर्वाणमार्गस्योपदेशकेनानैकांतिकं साधनमिति चेन्न । तस्यापि सर्वज्ञप्रतिपादितनिर्वाणमार्गोपैदेशित्वेन तदनुवाद कत्वात् प्रतिपादकत्वसिद्धेः । साक्षात्तत्वतो विश्वतत्त्वज्ञ एव हि निर्वाणमार्गस्य प्रवक्ता, गणधरदेवादयस्तु सूत्रकारपर्यंतास्तदनुवक्तारएव गुरुपूर्वक्रमाविच्छेदादिति स्याद्वादिनां दर्शनं ततो न तैरनेकांतिको हेतुर्यतः सुगतस्य निर्वाणमार्गस्योपदेशित्वाभावं न साधयेत् । स्यान्मतं न सुगतज्ञानं विश्वतत्त्वेभ्यः समुत्पन्नं तदाकारतां चापन्नं तदध्यवसायि च तत्साक्षात्कारि सौगतैरमिधीयते । “भिन्नकालं कथं ग्राह्यमितिचेदग्राह्यतां विदुः । हेतुत्वमेव युक्तिज्ञास्तदाकारार्पणक्षम" मित्यनेन तदुत्पत्तिताद्रूप्ययोग्राह्यत्वलक्षणत्वेन व्यवहारिणः प्रत्यभिधानात् “ यत्रैव जनयेदेनों तत्रैवास्य प्रमाणते" त्यनेनच तदध्यवसायित्वस्य प्रत्यक्षलक्षणत्वेन वचनमपि न सुगतप्रत्यक्षापेक्षया, व्यवहारिजनापेक्षयैव तस्य व्याख्यानात् सुगतप्रत्यक्षे स्वसंवेदनप्रत्यक्ष इव तल्लक्षणस्यासंभवात् । यथैव हि स्वसंवेदनप्रत्यक्षं स्वस्मादनुत्पद्यमानमपि स्वाकारममनुकुर्वाणं __ १ चित्तानां समूहः संततिरितियावत् । २ सविकल्पबुद्धिं ।