________________
८८
श्रीविद्यानंदिस्वामिविरचिता
पगमनीयत्वात् । ततस्तां परिजिहीर्षता पुरुषएव ज्ञानदर्शनोपयोगलक्षणः कश्चित्प्रक्षीणकर्मा सकलतत्वसाक्षात्कारी मोक्षमार्गस्य प्रणेता पुण्यशरीरः पुण्यातिशयोदये सति सन्निहितोक्तपरिग्राहकविनेयमुख्यः प्रतिपत्तन्यस्तस्यैव मुमुक्षुभिः प्रेक्षावद्भिः स्तुत्यतोपपत्तेः प्रधानं तु मोक्षमार्गस्य प्रणेतृ ततोऽर्थातरभूत एवात्मा मुमुक्षुभिः स्तूयते इत्यकिंचित्करात्मवायेव ब्रयान्न ततोऽन्य इत्यलं प्रसंगेन । योऽप्याह माभूत्कपिलो निर्वाणस्य प्रणेता महेश्वरवत् तस्य विचार्यमाणस्य तथा व्यवस्थापयितुमशक्तेः सुगतस्तु निर्वाणमार्गोपदेशकोऽस्तु सकलबाधकप्रमाणाभावादिति तमपि निराकर्तुमुपक्रमते।
सुगतोऽपि न निर्वाणमार्गस्य प्रतिपादकः। विश्वतत्त्वज्ञतापायात्तत्वतः कपिलादिवत् ॥ ८३॥
योयस्तत्वतो विश्वतत्वज्ञताऽपेतः स स न निर्वाणमार्गस्य प्रतिपादको यथाकपिलादिस्तथा च सुगत इत्येवं नासिद्धं साधनं तत्त्वतो विश्वतत्त्वज्ञताऽपेतत्वस्य सुगते धर्मिणि सद्भावात् । स हि विश्वतत्त्वान्यतीतानागतवर्तमानानि साक्षात्कुर्वस्तहेतुकोऽभ्युपगंतव्यः तेषां सुगतज्ञानहेतुत्वाभावे सुगतज्ञानविषयत्वविरोधात्, नाकारणं विषय इति स्वयमभिधानात् । तथाऽतीतानां तत्कारणत्वेऽपि न वर्तमानामामर्थानां सुगतज्ञानकारणत्वं समसमयभाविनां कार्यकारणभावाभावादन्वयव्यतिरेकानुविधानायोगात् । नह्यननुकृतान्वयव्यतिरेकोऽर्थः कस्यचित्कारणमिति युक्तं वक्तुं, नाननुकृतान्वयव्यतिरेकं कारणमिति प्रतीतेः । तथा भविष्यतां चार्थानां न सुगतज्ञानकरणता युक्ता यतस्तद्विषयं सुगतज्ञानं स्यादिति विश्वतत्वज्ञताऽपेतत्वं सुगतस्य सिद्धमेव, तथा परमार्थतः स्वरूपमात्रावलंबित्वात् सर्वविज्ञानानां सुगतज्ञानस्यापि स्वरूपमात्रविषयत्वमेवोररीकर्तव्यं तस्य