________________
आप्तपरीक्षा |
तयते इति व्याहन्यते स्वरूपस्य बुद्धयध्यनवसितस्यापि तेन संवेदनात् । यथा च बुद्ध्यध्यनवसिंतमात्मानमात्मा संचेतयते तथा बहिरर्थमपि संचेतयतां किमनया बुद्ध्या निष्कारणमुपकल्पितया स्वार्थसंवेदकेन पुरुषेण तत्कृत्यस्य कृतत्वात् । यदि पुनरर्थसंवेदनस्य कादाचित्कत्वाद्बुद्ध्यध्यवसायस्तत्रापेक्ष्यते तस्य स्वकारण बुद्धिकादाचित्कतया कादाचित्कस्यार्थसंवेदनस्य कादाचित्कताहेतुत्वसिद्धेः । बुद्धयध्यवसायानपेक्षायां पुंसोऽर्थसंवेदने शश्वदर्थसंवेदनप्रसंगादिति मन्यध्वं तदासंवेदिनः पुरुषस्यापि संचेतना कादाचित्का किमपेक्षास्यात् अर्थसंवेदनापेक्षयेति चेत् किमिदानीमर्थसंवेदनं पुरुषादन्यदभिधीयते ? तथाभिधाने स्वरूपसंवेदनमपि पुंसोऽन्यत्प्राप्तं तस्य कादाचित्कतया शाश्वतिकस्वाभावात्। तादृशस्वरुप संवेदनादात्मनोऽनन्यत्वे ज्ञानादेवानन्यत्वमिष्यतां । ज्ञानस्यानित्यत्वात् ततोऽनन्यत्वे पुरुषस्यानित्यत्वप्रसंग इतिचेत्, स्वरूपसंवेदनादप्यनित्यत्वादात्मनोऽनन्यत्वे कथंचिदनित्यत्वप्रसंगो दुःपरिहार एव । स्वरूपसंवेदनस्य नित्यत्वेऽर्थसंवेदनस्यापि नित्यता स्यादेव परापेक्षातस्तस्यानित्यत्वे स्वरूपसंवेदनस्याप्यनित्यत्वमस्तु, न चात्मनः कथंचिदनित्यत्वमयुक्तं । सर्वथानित्यत्वे प्रमाणविरोधात्, सोयं सांख्यः पुरुषं कादाचित्कार्थसंचेतनात्मकमपि निरतिशयं नित्यमाचक्षाणो ज्ञानात्कादाचित्काद नन्यत्वमनित्यत्वभयान्न प्रतिपद्यत इति किमपि महाद्भुतं । प्रधानस्य चानित्यत्वाव्यक्तादनर्थीतरभूतस्य नित्यतां प्रतीयन् पुरुषस्यापि ज्ञानादशाश्वतादनर्थीतरभूतस्य नित्यत्वमुपैतु सर्वथा विशेषाभावात् केवलं ज्ञानपरिणामाश्रयस्य प्रधानस्यादृष्टस्यापि परिकल्पनायां ज्ञानात्मकस्य च पुरुषस्य स्वार्थव्यवसायिनो दृष्टस्य हानिः पापीयसी स्यात् । दृष्टहानिरदृष्टपरिकल्पना च पापीयसीति सकलप्रेक्षावतामभ्यु