________________
आप्तपरीक्षा।
तर्हि तत्समवायः क्रमेण युगपद्वेत्यनिवृत्तः पर्यनुयोगोऽनवस्था च । यदि पुनयुगपदीश्वरज्ञानेऽतिशयानां समवायस्तदा तनिबंधनोऽपि तस्य क्रमो दूरोत्सारित एव तेषामक्रमत्वादिति सातिशयस्यापीश्वरज्ञानस्याक्रमत्वसिद्धिः । तथा चाक्रमादीश्वरज्ञानात्कार्याणां क्रमो न स्यादिति सक्तं दूषणं । किं च तदीश्वरज्ञानं प्रमाणं स्यात्फलं वा पक्षद्वयेऽपि दोषमादर्शयन्नाह
तद्बोधस्य प्रमाणत्वे फलाभावः प्रसज्यते । ततः फलावबोधस्यानित्यस्येष्टौ मतक्षतिः ॥२७॥ फलत्वे तस्य नित्यत्वं न स्यान्मानात्समुद्भवात् । ततोऽनुद्भवने तस्य फलत्वं प्रतिहन्यते ॥२८॥
नेश्वरज्ञानं नित्यं प्रमाणं सिद्धयेत् तस्य फलाभावात् । फलज्ञानस्यानित्यस्य परिकल्पने च महेश्वरस्य नित्यानित्यज्ञानद्वयपरिकल्पनायां सिद्धांतविरोधात् । फलत्वे वेश्वरज्ञानस्य नित्यत्वं न स्यात् प्रमाणतस्तस्य समुद्भवात् । ततोऽनुद्भवे तस्य फलत्वविरोधान्न नित्यमीश्वरज्ञानमभ्युपगमनीयं तस्य निगदितदोषानुषंगेण निरस्तत्वात् । किं तमुनित्यमेवेश्वरज्ञानमित्यपरे । तन्मतमनूद्य निराकुर्वन्नाह
अनित्यत्वे तु तज्ज्ञानस्यानेन व्यभिचारिता । कार्यत्वादेमहेशेनाकरणेऽस्य स्वबुद्धितः ॥ २९ ॥ बुद्ध्यंतरेण तद्बुद्धेः करणे चानवस्थितिः। नानादिसंततिर्युक्ता कर्मसंतानतो विना ॥३०॥
अनित्यं हीश्वरज्ञानमीश्वरबुद्धिकार्यं यदि नेष्यते तदा तेनैव कार्यत्वादिहेतुस्तनुकरणभुवनादेर्बुद्धिमत्कारणत्वे साध्येऽनैकांतिकः स्यात् । यदि पुनर्बुद्धचंतरेण स्वबुद्धिमीश्वरः कुर्वीत तदा परापरबुद्धिप्रतीक्षाया