________________
श्रीविद्यानंदिस्वामिविरचिता
मेवोपक्षीणत्वादीश्वरस्य प्रकृतबुद्धेः करणं न स्यादनवस्थानात् । स्यान्मतं प्रकृतबुद्धेः करणे नाऽपूर्वबुद्धयंतरं प्रतीक्षते महेशः । किं तर्हि पूर्वोत्पन्नां बुद्धिमाश्रित्य प्रकृतां बुद्धिं कुरुते तामपि तत्पूर्वी बुद्धिमित्यनादिबुद्धिसंततिरीश्वरस्य ततो नानवस्थेति । तदप्यसत् । तथाबुद्धिसंतानस्य कर्मसंतानापायेऽसंभवात् । क्रमजन्मा हि बुद्धिः परापरतद्धेतोरदृष्टविशेषस्य क्रमादुत्पद्यते नान्यथा । यदि पुनर्योगजधर्मसंततेरनादेश्विरस्य सद्भावादयमनुपालंभः पूर्वस्मात् समाधिविशेषाद्धर्मस्यादृष्टविशेषस्योत्पादात्ततो बुद्धिविशेषस्य प्रादुर्भावाददृष्टसंताननिबंधनाया एव बुद्धिसंततेरभ्युपगमादिति मतं तदापि कथमीश्वरस्य सकर्मता न सिद्धयेत् । तत्सिद्धौ च सशरीरताऽपि कथमस्य न स्यात् तस्यां च सत्यां न सदा मुक्तिस्तस्य सिद्धयेत् । सदेहमुक्तेः सदासिद्धौ तदेहेन च कार्यत्वादेः साधनस्य तन्वादेर्बुद्धिमत्कारणत्वे साध्ये कथमनैकांतिकता परिहतुं शक्यति तस्य बुद्धिमत्कारणत्वासंभवात् । संभवे चानवस्थानुषंगादिति प्रागेवोक्तं । किं चेदं विचार्यते किमीश्वरज्ञानमन्यापि किं वा व्यापीति प्रथमपक्षे दूषणमाह
अव्यापि च यदि ज्ञानमीश्वरस्य तदा कथं । सकृत्सर्वत्र कार्याणामुत्पत्तिर्घटते ततः॥ ३१ ॥ यद्येकत्र स्थितं देशे ज्ञानं सर्वत्र कार्यकृत् । तदा सर्वत्र कार्याणां सकृत् किं न समुद्भवः ॥३२॥ कारणांतरवैकल्यात्तथाऽनुत्पत्तिरित्यापि । कार्याणामीश्वरज्ञानाहेतुकत्वं प्रसाधयेत् ॥ ३३ ॥ १ अदोषः । २ जीवन्मुक्तेः । ३ नित्यत्वे । ४ जीवन्मुक्तदेहेन ।