________________
आप्तपरीक्षा।
४१ सर्वत्र सर्वदा तस्य व्यतिरेकाप्रसिद्धितः।. . अन्वयस्यापि संदेहात्कार्य तद्धेतुकं कथं ॥ ३४॥
तदीश्वरज्ञानं तावदव्यापीष्टं प्रादेशिकत्वात् सुखादिवत् । प्रादेशिकमीश्वरज्ञानं विभुद्रव्यविशेषगुणत्वात् यदित्यं तदित्यं यथा सुखादि तथा चेश्वरज्ञानं तस्मात्प्रादेशिकमिति नासिद्धं प्रादेशिकत्वं साधनं, न च तत्साधनस्य हेतोः सामान्यगुणेन संयोगादिना व्यभिचारो, विशेषग्रहणात् । तथापि विशेषगुणेन रूपादिनाऽनैकांतिक इति न मंतव्यं विभुद्रव्यग्रहणात् । तथापीष्टविरुद्धस्यानित्यत्वस्य साधनात् विरुद्धो हेतुः विभुद्रव्यविशेषगुणत्वस्यानित्यत्वेन व्याप्तत्वात् , यथाहीदं विभुद्रव्यविशेषगुणत्वं प्रादेशिकत्वमीश्वरज्ञानस्य साधयेत् तद्वदनित्यत्वमपि तदव्यभिचारात् , न हि कश्चिद्विभुद्रव्यविशेषगुणो नित्यो दृष्ट इत्यपि नाशंकनीयं महेश्वरस्यास्मद्विशिष्टत्वात् तद्विज्ञानस्यास्मद्विलक्षणत्वात् । न ह्यस्मदादिविज्ञाने यो धर्मो दृष्टः स महेश्वरविज्ञानेऽप्यापादयितुं युक्तोऽतिप्रसंगात् । तस्यास्मदादिविज्ञानवत् समस्तार्थपरिच्छेदकत्वाभावप्रसक्तेः सर्वत्रास्मदादिबुद्धयादीनामेवानित्यत्वेन व्याप्तस्य विमुद्रव्यविशेषगुणत्वस्य प्रसिद्धेः विभुद्रव्यस्य वा महेश्वरस्यैवाभिप्रेतत्वात्, तेन यदुक्तं भवति महेश्वरविशेषगुणत्वात् तदुक्तं भवति विभुद्रव्यविशेषगुणत्वादिति ततो नष्टोवरुद्धसाधनो हेतुर्यतो विरुद्धः स्यात् । न चैवमुदाहरणानुपपत्तिरीश्वरसुखादेरेवोदाहरणत्वात् तस्यापि प्रादेशिकत्वात् साध्यवैकल्याभावात् महेश्वरविशेषगुणत्वाच्च साधनवैकल्यासंभवात् ततोऽस्माद्धेतोरीश्वरज्ञानस्य सिद्धं प्रादेशिकत्वं । ततश्चाव्यापि तदिष्टं यदि वैशेषिकैस्तदा कथं सकृत्सर्वत्र तन्वादिकार्याणामुत्पत्तिरीश्वरज्ञानाद् घटते तद्धि निमित्तकारणं सर्वकार्योत्पत्तौ सर्वत्रासन्निहितमपि कथमुपपद्यते कालादेापिन एव युगपत्