________________
श्रीविद्यानंदिस्वामिविरचिता
सर्वत्र कार्योत्पत्तौ निमित्तकारणत्वप्रसिद्धेः । विभोरीश्वरस्य निमित्तकारणत्वप्रसिद्धेः विभोरीश्वरस्य निमित्तकारणत्ववचनाददोष इति चेन्न । तस्य यत्र प्रदेशेषु बुद्धिस्तत्रैव निमित्तकारणत्वोपपत्तेर्बुद्धिशून्येऽपि प्रदेशांतरे तस्य निमित्तकारणत्वे, न तत्र कार्याणां बुद्धिमन्निमित्तत्वं सिद्धयेत् तथा च व्यर्थ बुद्धिमन्निमित्तत्वसाधनं सर्वत्र कार्याणां बुद्धिमदभावेऽपि भावापत्तेः । न चैवं कार्यत्वादयो हेतवो गमकाः स्युर्बुद्धिशून्येश्वरप्रदेशवर्तिभिरबुद्धिमन्निमित्तैः कार्यादिभिर्व्यभिचारात् । ततस्तेषां बुद्धिमन्निमित्तत्वासिद्धेः । स्यान्मतं प्रदेशवर्तिनाऽपि ज्ञानेन महेश्वरस्य युगपत्समस्तकारक परिच्छेदसिद्धेः सर्वकार्योत्पत्तौ युगपत्सकलकारकप्रयोक्तत्वव्यवस्थितेः निखिलतन्वादिकार्याणां बुद्धिमन्निमित्तत्वोपपत्तेः नोक्तदोषोऽनुप्रसज्यत इति । तदप्यसम्यक् । क्रमेणानेकतन्वादिकार्यजन्मनि तस्य निमित्तकारणत्वायोगात् । ज्ञानं हीश्वरस्य यद्येकत्र प्रदेशे वर्तमानं समस्तकारकशक्तिसाक्षात्करणात् समस्तकारकप्रयोक्तृत्वसाधनात् सर्वत्र परंपरया कार्यकारीष्यते तदा युगपत्सर्वकार्याणां सर्वत्र किं न समुद्भवः प्रसज्यते, यतो महेश्वरस्य प्राक् पश्चाच्च कार्योत्पत्तौ निमित्तकारणत्वाभावो न सिद्धयेत् । समर्थेऽपि सति निमित्तकारणे कार्यानुत्पादविरोधात् । स्यान्मतं न निमित्तकारणमात्रात्तन्वादिकार्याणामुत्पत्तिः समवाय्यसमवायिनिमित्तकारणांतराणामपि सद्भावे कार्योत्पत्तिदर्शनात् न च सर्वकार्याणां युगपत्समवाय्यसंमवायिनिमित्तकारणसद्भावः क्रमेणैव तत्प्रसिद्धेः । ततः कारणांतराणां वैकल्यात् तथा युगपत्सर्वत्र कार्याणामनुत्पत्तिरिति । तदपि कार्याणां नेश्वरज्ञानहेतुकत्वं साधयेत् तदन्वयव्यतिरेकासिद्धेः सत्यपीश्वरज्ञाने केषांचित्कार्याणां कारणांतराभावेऽनुत्पत्तेः कारणांतरसद्भाव एवोत्पत्तेः कारणांतरान्वयव्यतिरेकानुविधानस्यैव सिद्धेः तत्कार्यत्वस्यैव व्यवस्थानात् । ननु च सत्येव