________________
आप्तपरीक्षा।
४३
ज्ञानवति महेश्वरे तन्वादिकार्याणामुत्पत्तेरन्वयोऽस्त्येव । व्यतिरेकोऽपि विशिष्टावस्थापेक्षया महेश्वरस्य विद्यत एव कार्योत्पादनसमर्थकारणांतरसन्निधानविशिष्टेश्वरेऽसति कार्याणामनुत्पत्तेः व्यतिरेकनिश्चयात् । सर्व त्रावस्थापेक्षयैवावस्थावतोऽन्वयव्यतिरेकप्रतीतेः । अन्यथा तदसंप्रत्ययात् । न ह्यवस्थांतरे सति कार्योत्पत्तिरिति वक्तुं शक्यं सर्वावस्थासु तस्मिन्सति तदुत्पत्तिप्रसंगात् । नाप्यवस्थावतोऽसंभवे कार्येऽस्यासंभवः सुशक्तो वक्तुं तस्य नित्यत्वादभावानुपपत्तेः । द्रव्यावस्थाविशेषाभावे तु तत्साध्यकार्यविशेषानुत्पत्तेः सिद्धो व्यतिरेकोऽन्वयवत् न चावस्थावतो द्रव्यस्यानाद्यनंतस्योत्पत्तिविनाशशन्यस्यापन्हवो युक्तः तस्याबाधितान्वयज्ञानसिद्धत्वात तदपह्नवे सौगतमतप्रवेशानुषंगात् कुतः स्याद्वादिनामिष्टसिद्धिरिति कश्चिद्वैशेषिकमतमनुमन्यमानः समभिधत्ते। सोऽप्येवं प्रष्टव्यः किमवस्थावतोऽवस्था पदार्थातरभूता किंवा नेति । प्रथमकल्पनायां कथमवस्थापेक्षयाऽन्वयव्यतिरेकानुविधानं तन्वादिकार्याणामीश्वरान्वयव्यतिरेकानुविधानं युज्यते, धूमस्य पावकान्वयव्यतिरेकानुविधाने पर्वताद्यन्वयव्यतिरेकानुविधानप्रसंगात् । पदार्थांतरत्वाविशेषात् यथैव हि पर्वतादेः पावकस्य पदार्थातरत्वं तथेश्वरात्कारणांतरसन्निधानस्यावस्थाविशेषस्यापि सर्वथा विशेषाभावात् । यदि पुनरीश्वरस्यावस्थातो भेदेऽपि तेन संबंधसद्भावात्तदन्वयव्यतिरेकानुविधान कार्याणामीश्वरान्वयव्यतिरेकानुविधानमेवेति मन्यते तदा पर्वतादेः पावकेन संबंधात्पावकान्वयव्यतिरेकानुविधानमपि धूमस्य पर्वताद्यन्वयव्यतिरेकानुविधानमनुमन्यतां । पावकविशिष्टपर्वताद्यन्वयन्यतिरेकानुकरणं धूमस्यानुमन्यते एव तद्वदवस्थाविशिष्टेश्वरान्वयन्यतिरेकानुकरणं तन्वादिकार्याणां युक्तमनुमंतुमिति चेन्न पर्वतादिवदीश्वरस्य भेदप्रसंगात् । यथैव हि पावकविशिष्टपर्वतादेरन्यः पावकाविशिष्टपर्वतादिः सिद्धः तद्वत्कारणांतर