________________
श्रीविद्यानंदिस्वामिविरचिता
aaisaरिततत्त्वानि प्रत्यक्षाण्यर्हतोऽजसा । प्रमेयत्वाद्यमास्मादृक् प्रत्यक्षार्थाः सुनिश्चिताः ॥८७॥ कानि पुनरंतरिततत्त्वानि, देशाद्यंतरिततस्त्वानां सत्त्वे प्रमाणाभावात् । नह्यस्मदादिप्रत्यक्षं तत्र प्रमाणं देशकालस्वभावाव्यवहितवस्तुविषयत्वात् । सत्संप्रयोगे पुरुषस्येंद्रियाणां यद्बुद्धिजन्म तत्प्रत्यक्षमिति वचनात् । नाप्यनुमानं तत्र प्रमाणं तदविनाभाविनो लिंगस्याभावात् । नाप्यागमस्तदस्तित्वे प्रमाणं, तस्यापौरुषेयस्य स्वरूपे एव प्रामाण्यसंभवात् । पौरुषेयस्यासर्वज्ञप्रणीतस्य प्रामाण्यासंभवात् । पौरुषेयस्य सर्वज्ञप्रणीतस्य तु सर्वज्ञसाधनात्पूर्वमसिद्धेः । नाप्यर्थापत्तिः देशाद्यंतरिततत्वैर्विनाऽनुपपद्यमानस्य कस्यचिदर्थस्य प्रमाणषट्कप्रसिद्धस्यासंभवात् । नचोपमानमंतरिततत्त्वास्तित्वे प्रमाणं, तत्सदृशस्य कस्यचिदुपमानभूतस्यार्थस्यासिद्धेरुपमेयभूतांतरिततत्त्ववत् । तदुपलंभकप्रमाणपंचकाभावे च कुर्तोऽतरित - तत्त्वानि सिध्येयुर्यतो धर्म्यसिद्धिर्न भवेत् ? धर्मिणश्चासिद्धौ हेतुराश्रयासिद्ध इति केचित् तेऽत्र न परीक्षकाः । केषांचित्स्फटिकाद्यंतरितार्थानामस्मदादिप्रत्यक्षतोऽस्तित्वसिद्धेः परेषां कुड्यादिदेशव्यवहितानामग्न्यादीनां तदविनाभाविनो धूमादिलिंगादनुमानात् कालांतरितानामपि भवि - ष्यतां वृष्ट्यादीनांविशिष्टमेघोन्नतिदर्शनादस्तित्वसिद्धेः । अतीतानां पावकादीनां भस्मादिविशेषदर्शनात्प्रसिद्धेः । स्वभावांतरितानां तु करणशक्त्यादीनामर्थापत्त्यास्तित्वसिद्धेः । धर्मिणामंतरिततत्त्वानां प्रसिद्धत्वाद्धेतोश्वाश्रयासिद्धत्वानुपपत्तेः । नन्वेवं धर्मिसिद्धावपि हेतोश्चाश्रयासिद्धत्वाभावेऽपि पक्षोऽप्रसिद्ध विशेषणः स्यात्, अर्हत्प्रत्यक्षत्वस्य साध्यधर्मस्य क्वचिदप्रसिद्धेरिति न मंतव्यं पुरुषविशेषस्यार्हतः संबद्धवर्तमानार्थेषु प्रत्यक्षत्वप्रवृत्तेरविरोधादर्हत्प्रत्यक्षस्य विशेषणस्य सिद्धौ
११०