________________
आप्तपरीक्षा ।
प्रतिभासमात्रांतःप्रवेशाभावात् । स्वयं प्रतिभासमानज्ञानविषयतया प्रतिभासमानतोपचारात् स्वयंप्रतिभास्यमानत्वेन व्यवस्थानात् । न च प्रतिभासमात्रमेव तद्भेदप्रतिभासं जनयति तस्य ततः प्रविष्टस्य जन्यत्वविरो-धात् । प्रतिभासमात्रस्य च जनकत्वायोगात् । नैकं स्वस्मात्प्रजायत इत्यपि सूक्तं । तथा कर्मद्वैतस्य - फलद्वैतस्य लोकद्वैतस्य च विद्याविद्याद्वयवद्वंधमोक्षद्वयवच्च प्रतिभासमानप्रमाणविषयतया व्यवस्थितेः प्रतिभासमानस्यापि प्रमेयतया व्यवस्थितेः प्रतिभासमात्रांतःप्रवेशानुपपत्तेरभावापादनं वेदांतवादिनामनिष्टं । सूक्तमेव समंतभद्रस्वामिभिः तथा, हेतोरद्वैतसिद्धिः यदि प्रतिभासमात्रव्यतिरेकिणः प्रतिभासमानादपि यदीष्यते तदा हेतुसाध्ययोर्द्वैतं स्यादित्यपि सूक्तमेव पक्षहेतुदृष्टांतानां कुतश्चित्प्रतिभासमाना- . नामपि प्रतिभासमात्रानुप्रवेशासंभवात् । एतेन हेतुना विनोपनिषद्वाक्यविशेषात्पुरुषाद्वैत सिद्धौ वाङ्मात्रात्कर्मकांड प्रतिपादकवाक्याद्वैतसिद्धिरपि किं न भवेत् । तस्योपनिषद्वाक्यस्य परमब्रह्मणोऽतः प्रवेशासिद्धेः । एतेन वैशेषिकादिभिः प्रतिज्ञातपदार्थभेदप्रतीत्या पुरुषाद्वैतं बाध्यत एव तद्भेदस्य प्रत्ययविशेषात्प्रतिभासमानस्यापि प्रतिभासमात्रात्मकत्वासिद्धेः । कुतः परमपुरुष एव विश्वतत्त्वानां ज्ञाता मोक्षमार्गस्य प्रणेता व्यवतिष्ठते । तदेवमीश्वरकपिलसुगतब्रह्मणां विश्वतत्वज्ञतापायान्निर्वाणमार्गप्रणयनानुपपत्तेर्यस्य विश्वतत्त्वज्ञता कर्मभूभृतां भेत्तृता मोक्षमार्गप्रणेतृता च प्रमाणबलात्सिद्धा ।
१०९
सोऽर्हन्नेव मुनींद्राणां वंद्यः समवतिष्ठते ।
तत्सद्भावे प्रमाणस्य निर्बाधस्य विनिश्वयात् ॥ ८६ ॥ किं पुनस्तत्प्रमाणमित्याह -