SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ श्रीविद्यानंदिस्वामिविरचिता - बोध्यनांतरीयको बोध इति चेन्न तत्रापि बोध्यसामान्यसद्भाव एव बोधोपपत्तेः । न हि संशयस्वप्नादिबोधोऽपि बोध्यसामान्यं व्यभिचरति बोध्यविशेषस्यैव तस्य व्यभिचाराद्धांतत्वसिद्धेः । न च सर्वस्य बोध्यस्य स्वयंप्रकाशमात्रं सिद्धं स्वयं प्रकाशमानबोधविषयतया तस्य तथोपचारास्वयं प्रकाशमानांशुमालिप्रभाभारविषयभूतानां लोकानां प्रकाशमानोपचार - वत् ततो यथा लोकानां प्रकाश्यानामभावे न तानंशुमाली ज्वलयितुमलं तथा बोध्यानां नीलसुखादीनामभावे न बोधमयप्रकाशविशदों ऽतर्यामी तान् प्रकाशयितुमश इति प्रतिपत्तव्यं । तथाचांतः प्रकाशमानानं पर्यायैकपुरुषद्रव्यवत्, बहिः प्रकाश्यानतपर्यायैकाचेतनद्रव्यमपि प्रतिज्ञातव्यमिति चेतनाचेतनद्रव्यद्वैत सिद्धेः न पुरुषाद्वैतसिद्धिः संवेदनाद्वैतसिद्धिवत् । चेतनद्रव्यस्य च सामान्यादेशादेकत्वेऽपि विशेषादेशादनेकत्वं संसारिमुक्तविकल्पात् । सर्वथैकत्वे सकृत्तद्विरोधात् । अचेतनद्रव्यस्य सर्वथैकत्वे मूर्त मूर्तद्रव्यविरोधवत् । मूर्तिमदचेतनद्रव्यं हि पुद्गलद्रव्यमने कभेदं परमाणुस्कंधविकल्पात् पृथिव्यादिविकल्पाच्च धर्माधर्माकाशकालविकल्पममूर्तिमद्द्रव्यं चतुर्धा चतुर्विधकार्यविशेषानुमेयमिति द्रव्यस्य षड्विवस्य प्रमाणबलात्तत्वार्थालंकारेः समर्थनात् । तत्पर्यायाणां चातीतानागतवर्तमानानंतार्थव्यंजनविकल्पानां सामान्यतः सुनिश्चितासंभवद्बाधकप्रमाणात्परमागमात्प्रसिद्धेः । साक्षात्केवलज्ञानविषयत्वाच्च न द्रव्यैकांतसिद्धिः पर्यायैकांतसिद्धिर्वा । नचैतेषां सर्वद्रव्यपर्यायाणां केवलज्ञानं प्रतिभासमानानामपि प्रतिभासमात्रांतः प्रवेशः सिध्येत् विषयविषयिभेदाभावे सर्वाभावप्रसंगात् निर्विषयस्य प्रतिभासस्यासंभवान्निः प्रतिभासस्य विषयस्य वाऽव्यवस्थानात् । ततश्चाद्वैतैकांते कारकाणां कर्मादीनां क्रियाणां परिस्पंदलक्षणानां “धात्वर्थ लक्षणानां च दृष्ट भेदो विरुध्यत एव तस्य प्रतिभासमानस्यापि १०८
SR No.022436
Book TitleAaptpariksha
Original Sutra AuthorN/A
AuthorVidyanandswami
PublisherJain Sahitya Prasarak Karyalay
Publication Year
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy