________________
आप्तपरीक्षा।
१०७
प्रतिभाससामान्य
तस्य सर्वत्र
तदितिचेन्न
भाससामान्यमसत्यं विसंवादकत्वात् स्वप्नादिप्रतिमाससामान्यवदिति । न हि स्वप्नादिप्रतिभासविशेषा एव विसंवादिनो न पुनः प्रतिभाससामान्य सद्व्यापकमिति वक्तुं युक्तं, शशविषाणगगनकुसुमकूर्मरोमादीनामसत्वेऽपि तद्व्यापकसामान्यस्य सत्त्वप्रसंगात् । कथमसतां व्यापकं किचिंत्सत्स्यादितिचेत्कथमसत्यानां प्रतिभासविशेषाणां व्यापकं प्रतिभाससामान्यं सत्य. मिति समो वितर्कः । तस्य सर्वत्र सर्वदा सर्वथा वाऽविच्छेदात् सत्यं तदितिचेन्न एवं देशकालाकारविशिष्टस्यैव तस्य सत्यत्वसिद्धेः । सर्वदेशविशेषरहितस्य सर्वकालविशेषरहितस्य च सर्वाकारविशेषरहितस्यैव सर्वत्र सर्वथा सर्वदेति विशेषयितुमशक्तेः । तथा च प्रतिभाससामान्य सकलदेशकालाकारविशेषविशिष्टमभ्युपगच्छन्नेव वेदांतवादी स्वयमेकद्रव्यमनंतपर्यायं पारमार्थिकमितिप्रतिपत्तुमर्हति प्रमाणबलायातत्वात् , तदेवास्तु परमपुरुषस्यैव बोधमयप्रकाशविशदस्य मोहान्धकारापहस्यांतयामिनः सुनितित्वात् तत्र संशयानां प्रतिघातात्सकललोकोद्योतनसमर्थस्य तेजोनिधेरैशुमालिनोऽपि तस्मिन् सत्येव प्रतिभासनात्, असति चाप्रतिभासनादिति कश्चित् तदुक्तं " यो लोकान् ज्वलयत्यनल्पमहिमा सोऽप्येष तेजोनिधिर्यस्मिन्सत्यवभाति नासति पुनर्देवोंऽशुमाली स्वयं । तस्मिन्बोधमयप्रकाशविशदे मोहांधकारापहे येऽन्तर्यामिनि पूरुषे प्रतिहताः संशेरते ते हताः " इति । तदपि न पुरषाद्वैतव्यवस्थापनपरमाभासते तस्यांऽतयामिनः पुरुषस्य बोधमयप्रकाशविशदस्यैव बोध्यमयप्रकाश्यस्यासंभवानुपपत्तेः । यदि पुनः सर्व बोध्यं बोधमयमेव प्रकाशमानत्वाबोधस्वात्मवदिति मन्यते तदा बोधस्यापि बोध्यमयत्वापत्तिरिति पुरुषाद्वैतमिच्छतो बोध्याद्वैतसिद्धिः।। बोधाभावे कथं बोध्यसिद्धिरिति चेद्बोध्याभावेऽपि बोधसिद्धिः कथं है बोध्यनांतरीयकत्वाद्बोधस्य । स्वप्नेंद्रनालादिषु बोध्याभावेऽपि बोधसिद्धेर्न