________________
१०६
श्रीविद्यानंदिस्वामिविरचिता
मासनाच्चक्षुःप्रतिपत्तिवत् । तथा करणज्ञानमात्मानं चाप्रत्यक्षं वदन् प्राभाकरोऽपि नोपालंभमर्हति फलज्ञानस्य स्वयं प्रतिभासमानस्य तेन प्रतिज्ञानात् तद्धर्मस्य विषयेषूपचारस्य सिद्धेः । फलज्ञानं च कर्तृकरणाभ्यां विना नोपपद्यत इति । तदेव कर्तारं करणज्ञानं चाप्रत्यक्षमपि व्यवस्थापयति यथा रूपे प्रतिभासनक्रिया फलरूपा चक्षुष्मंतं चक्षुश्च प्रत्यापयतीति केचिन्मन्यते तेषामपि भट्टमतानुसारिणामात्मनः स्वरूपपरिच्छेदेऽर्थपरिच्छेदस्यापि सिद्धेः । स्वार्थपरिच्छेदकपुरुषप्रसिद्धौ ततोऽन्यस्य परोक्षज्ञानस्य कल्पना न कंचिदर्थं पुष्णाति, प्रभाकरमतानुसारिणां फलज्ञानस्य स्वार्थपरिच्छित्तिरूपस्य प्रसिद्धौ करणज्ञानकल्पनावत् । कर्तुः करणमंतरेण क्रियायां व्यापारानुपपत्तेः परोक्षज्ञानस्य करणस्य कल्पनानानार्थकेति चेन्न मनसश्चक्षुरादश्चांतर्बहिःपरिच्छित्तौ करणस्य सद्भावात् ततो बहिर्भूतस्य करणांतरस्य कल्पनायामनवस्थाप्रसंगात् ततःस्वार्थपरिच्छेदकस्य पुंसः फलज्ञानस्य वा स्वार्थपरिच्छित्तिस्वभावस्य प्रसिद्धौ स्याद्वादिदर्शनस्यैव प्रसिद्धेः । स्वयं प्रतिभासमानस्यात्मनो ज्ञानस्य वा धर्मः क्वचित्तद्विषये कथंचिदुपचर्य्यत इति सत्तासामान्यं प्रतिभासते प्रतिभासविषयो भवतीत्युच्यते न चैवं प्रतिभासमात्रे तस्यानुप्रवेशः सिध्येत् परमार्थतः संवेदनस्यैव स्वयं प्रतिभासमानत्वात् । स्यान्मतं न सत्तासामान्यं प्रतिभासमात्रं तस्य द्रव्यादिमात्रव्यापकत्वात् सामान्यादिषु प्रागभावादिषु चाभावात् किं तर्हि सकलभावाभावव्यापकं प्रतिभाससामान्य प्रतिभासमात्रमभिधीयते इति । तदपि न. सम्यक् प्रतिभाससामान्यस्य प्रतिभासविशेषनांतरीयकत्वात्प्रतिभासाद्वैतविरोधात् , संतोऽपि प्रतिभासविशेषाः सत्यतां न प्रतिपद्यते संवादकत्वाभावात्स्वप्नादिप्रतिभासविशेषवदिति चेन्न प्रतिभाससामान्यस्याप्यसत्यत्वप्रसंगात् शक्यं हि वक्तुं प्रति