________________
आप्तपरीक्षा।
१०५
मकलंकदेवैः " इंद्रजालादिषु भ्रांतमीरयंति न चापरं । अपि चांडालगोपालवाललोलविलोचना" इति । किंच तत्प्रतिभासमात्र सामान्यरूपं द्रव्यरूपं वा ? प्रथमपक्षे सत्तामात्रमेव स्यात् , तस्यैव परसामान्यरूपतया प्रतिष्ठानात् । तस्य स्वयं प्रतिभासमानत्वे प्रतिभासमात्रमेव तत्वमन्यथा तदव्यवस्थितेरितिचेन्न सत्सदित्यन्वयज्ञानविषयत्वात् सत्तासामान्यस्य व्यवस्थितेः स्वयं प्रतिभासमानत्वासिद्धेः । सत्ता प्रतिभासत इति तु विषये विषयिधर्मस्योपचारात् प्रतिभासनं हि विषयिणो ज्ञानस्य धर्मः स विषये सत्तासामान्येऽध्यारोप्यते तदध्यारोपनिमित्तं तु प्रतिभासनक्रियाधिकरणत्वं । यथैव हि संवित्प्रतिभासते इति कर्तृस्था प्रतिभासनक्रिया तथा तद्विषयस्थाप्युपचर्यते सकर्मकस्य धातोः कर्तृकर्मस्थक्रियार्थत्वात् यथौदनं पचतीति पचनक्रिया पाचकस्था पाच्यमानस्था च प्रतीयते तद्वदकर्मकस्य धातोः कर्तृस्थक्रियामात्रार्थत्वात् परमार्थतः कर्मस्थक्रियाऽसंभवात्कर्तृस्था क्रिया कर्मण्युपचर्यते । ननु च सति मुख्ये स्वयं प्रतिभासमाने कस्यचित् प्रमाणतः सिद्धे परत्र तद्विषये तदुपचारकल्पना युक्ता यथाऽग्नौ दाहपाकाद्यर्थक्रियाकारिणि तद्धर्मदर्शनान्माणवके तदुपचारकल्पनाऽग्निर्माणवक इति। न च किंचित्संवेदनं स्वयं प्रतिभासमानं सिद्धं संवेदनांतरसंवेद्यत्वात् । संवेदनस्य क्वचिदवस्थानाभावात् । सुदूरमपि गत्वा कस्यचित्संवेदनस्य स्वयं प्रतिमासमानस्यानभ्युपगमात् कथं तद्धर्मस्योपचारस्तद्विषये घटेतेति कश्चित् । सोऽपि ज्ञानांतरवेद्यज्ञानवादिनमुपालभतां परोक्षज्ञानवादिनं वा ? ननु च परोक्षज्ञानवादी भट्टस्तावन्नोपालंभार्हः स्वयंप्रतिभासमानस्यात्मन स्तेनाभ्युपगमात् तद्धर्मस्य प्रतिभासनस्य विषयेषूपचारघटनात् घटः प्रतिभासते, घटादयः प्रतिभासत इति घटपटादिप्रतिभासनान्यथानुपपत्या च करणभूतस्य परोक्षस्यापि ज्ञानस्य प्रतिपत्तेरविरोधात् रूपप्रति