________________
१०४
श्रीविद्यानंदिस्वामिविरचिता
चित्प्रतिभासविशेषेण सहितस्यैव तस्य प्रतिभासनात्क्वचित्प्रतिभासविशेषस्याभावेऽपि पुनरन्यत्र भावात्कदाचिदभावेऽपि चान्यदा सद्भावात्केनचिदाकारविशेषेण तदसंभवेऽपि चाकारांतरेण संभवाद्देशकालाकारविशेषापेक्षत्वात् तत्प्रतिभासविशेषाणां तथा व्यभिचाराभावादव्यभिचारित्वसिद्धेः तत्वलक्षणानतिकमान्न तत्वबहिर्भावो युक्तः । तथाहि-यद्यथैवाव्यभिचारि. तत्तथैव तत्वं तथा प्रतिभासमात्रं प्रतिभासमात्रतयैवाव्यभिचारि तथैव तत्वं । अनियतदेशकालाकारतयैवाव्यभिचारी च प्रतिभासविशेष इति प्रतिभासमात्रवत्प्रतिभासविशेषस्यापि वस्तुत्वसिद्धेः। नहि यो यद्देशतया प्रतिभासविशेषः स तद्देशतां व्यभिचरति, अन्यथा भ्रांतत्वप्रसंगात् शाखादेशतया चंद्रप्रतिभासवत् । नापि यो यत्कालतया प्रतिभासविशेषः स तत्कालतां व्यभिचरति, तद्वयभिचारिणोऽसत्यत्वव्यवस्थानान्निशि मध्यंदिनतया स्वप्नप्रतिमास. विशेषवत् । नापि यो यदाकारतया प्रतिभासविशेषः स तदाकारतां विसंवदति तद्विसंवादिनो मिथ्याज्ञानत्वसिद्धेः कामलाद्युपहतचक्षुषः शुक्ले शंखे पीताकारताप्रतिभामविशेषवत् । न च वितथैर्देशकालाकारव्यभि. चारिभिः प्रतिभासविशेषैः सदृशा एव देशकालाकाराव्यभिचारिणः प्रतिभासविशेषाः प्रतिलक्षयितुं युज्यते यत इदं वेदांतवादिनां वचनं शोभेत " आदावते च यन्नास्ति वर्तमानेऽपि तत्तथा । वितथैः सदृशाः संतोऽवितथा एव लक्षिताः" इति तेषामवितथानामादावंते चासत्वेऽपि वर्तमाने सत्त्वप्रसिद्धेबर्बाधकप्रमाणाभावात् । नहि यथा स्वप्नादिभ्रांतप्रतिभासविशेषेषु तत्कालेऽपि बाधकं प्रमाणमुदेति तथा जाग्रदशायामभ्रांतप्रतिभासविशेषेषु, तत्र साधकप्रमाणस्यैव सद्भावात् । सम्यङ्मया तदा दृष्टोऽर्थोऽर्थक्रियाकारित्वात् तस्य मिथ्यात्वेऽर्थक्रियाकारित्वविरोधात् इंद्रजालादिपरिदृष्टार्थवदिति। नच भ्रांतेतरव्यवस्थायां चांडालादयोऽपि विप्रतिपद्यते तथा चोक्त