________________
श्रीविद्यानंदिस्वामिविरचिता
विपक्षव्यावृत्तिकमेव साध्यं न साधयेत् विपक्षेण विरोधासिद्धेः पुरुषश्च स्यात्कश्चित्सर्वज्ञश्वेति । नहि ज्ञानातिशयेन तत्पुरुषत्वं विरुध्यते कस्यचित्सातिशयज्ञानस्य महापुरुषत्वसिद्धेः । पुरुषत्वविशेषो हेतुश्चेत् स यद्यज्ञानादिदोषदूषित पुरुषत्वमुच्यते तदा हेतुरसिद्धः परमेष्ठिनि तथाविधिपुरुषत्वासंभवात् । अथ निर्दोषपुरुषत्वविशेषो हेतुस्तदा विरुद्धः साध्यविपर्ययसाधनात् सकलाज्ञानादिदोषविकलपुरुषत्वं हि परमात्मनि सिध्यत् सकलज्ञानादिगुण प्रकर्षपर्यंतगमनमेव साधयेत् तस्य तेन व्याप्तत्वादिति नानुमानं सर्वज्ञस्य बाधकं बुध्यामहे । नाप्युपमानं तस्योपमानोपमेयग्रहणपूर्वकत्वात् । प्रसिद्धे हि गोगवययोरुपमानोपमेयभूतयोः सादृश्ये दृश्यमानाद्गोर्गवये विज्ञानमुपमानं सादृश्योपाध्युपमेय - विषयत्वात् । तथोक्तम् - " दृश्यमानाद्यदन्यत्र विज्ञानमुपजायते । सादृश्येोपाधितः कैश्चिदुपमानमिति स्मृतं "। न चोपमानभूतानामस्मदादीनामुपमेयभूतानां चासर्वज्ञत्वेन साध्यानां पुरुषविशेषाणां साक्षात्करणं संभवति । नच तेष्वसाक्षात्करणेषु तत्सादृश्यं प्रसिध्यति । न चाप्रसिद्धतत्सादृश्यः सर्वज्ञाभाववादी सर्वेऽप्यसर्वज्ञाः पुरुषाः कालांतरदेशांतरवर्तिनो यथास्मदादय इत्युपमानं कर्तुमुत्सहते जात्यंध इव दुग्धस्य बकोपमानं तत्साक्षात्करणे वा स एव सर्वज्ञ इति कथमुपमानं तदभावसाधनायालं । तथार्थापत्तिरपि न सर्वज्ञरहितं जगत्सर्वदा साधयितं क्षमा क्षीणत्वात्तस्याः साध्याविनाभावनियमाभावात् । सर्वज्ञेन रहितं जगत्तत्कृतधर्माद्युपदेशासंभवान्यथानुपपत्तेरित्यर्थापत्तिरपि न साधीयसी, सर्वज्ञकृतधर्माद्यपदेशासंभवस्यार्थापत्त्युत्थापकस्यार्थस्य प्रत्यक्षाद्यन्यतमप्रमाणेन विज्ञातुमशक्तेः । नन्वपौरुषेयाद्वेदादेव धर्माद्युपदेशसिद्धेः धर्मे चोदनैव प्रमाणमिति वचनान्न धर्मादिसाक्षात्कारी कश्चित्पुरुषः संभवति
१२२