________________
११२ श्रीविद्यानंदिस्वामिविरचिता
येह्यस्मादृशां प्रत्यक्षाः संबद्धा वर्तमानाश्वार्थास्ते कथमर्हतः पुरुषविशेषस्य प्रत्यक्षाः न स्युस्तद्देशकालवर्तिनः पुरुषांतरस्यापि तदप्रत्यक्षत्वप्रसंगात् ततो न स्याद्वादिन इव सर्वज्ञाभाववादिनोऽप्यत्र विवदंते । वादिप्रतिवादिनोरविवादाच्च साध्यसाधनधर्मयोदृष्टांते च न साध्यवैकल्यं साधनवैकल्यं वा यतोऽनन्वयहेतुःस्यात् । नन्वतींद्रियप्रत्यक्षतोंऽतरिततत्त्वानि प्रत्यक्षाण्यर्हतः साध्यंते किंचेंद्रियप्रत्यक्षत इति संप्रधार्यम् । प्रथमपक्षे साध्यविकलो दृष्टांतः स्यात् । अस्मादृप्रत्यक्षाणामर्थानामतीं. द्रियप्रत्यक्षतोऽहत्प्रत्यक्षत्वासिद्धेः । द्वितीयपक्षे प्रमाणबाधितः पक्षः, इंद्रियप्रत्यक्षतो धर्माधर्मादीनामंतरिततत्वानामहत्प्रत्यक्षत्वस्य प्रमाणबाधितत्वात् । तथाहि-नार्हदिंद्रियप्रत्यक्षं धर्मादीन्यंतरिततत्वानि साक्षात्कर्तुं समर्थमिंद्रियप्रत्यक्षत्वादस्मदादींद्रियप्रत्यक्षवत् इत्यनुमानं पक्षस्य बाधक। न चात्र हेतोः सांजनचक्षुःप्रत्यक्षेणानैकांतिकत्वं, तस्यापि धर्माधर्मादिसाक्षात्कारित्वाभावात् । नापीश्वरेंद्रियप्रत्यक्षेण तस्यासिद्धत्वात्स्याद्वादिनामिव मीमांसकानामपि तदप्रसिद्धेरितिच न चोद्यं, प्रत्यक्षसामान्यतोऽहत्प्रत्यक्षत्वसाधनात् । सिद्धेचांतरिततत्वानां सामान्यतोऽहत्प्रत्यक्षत्वे धर्मादिसाक्षात्कारिणः प्रत्यक्षस्य सामर्थ्यादतींद्रियप्रत्यक्षत्वसिद्धेः । तथा दृष्टांतस्य साध्यवैकल्यदोषानवकाशात् कथमन्यथाभिप्रेतानुमानेऽप्ययं दोषो न भवेत् । तथाहि-नित्यःशब्दःप्रत्यभिज्ञायमानत्वात्पुरुषवदिति । अत्र कूटस्थनित्यत्वं साध्यते कालांतरस्थायिनित्यत्वं वा ? प्रथमकल्पनायामप्रसिद्धविशेषणः पक्षः कूटस्थनित्यत्वस्य क्वचिदन्यत्राप्रसिद्धेस्तत्र प्रत्यभिज्ञानस्यैवासंभवात् पूर्वापरपरिणामशून्यत्वात्प्रत्यभिज्ञानस्य पूर्वोत्तरपरिणामव्यापिन्येकत्र वस्तुनि सद्भावात् । पुरुषे च कूटस्थनित्यत्वत्य साध्यस्याभावात्ततस्य सातिशयत्वात् साध्यशून्यो दृष्टांतः । द्वितीयकल्पनायां