________________
आप्तपरीक्षा।
तु स्वमतविरोधः, शब्दे कालांतरस्थायिनित्यत्वस्यानभ्युपगमात् । यदि. पुनर्नित्यत्वसामान्यं साध्यते सातिशयेतरनित्यत्वविशेषस्य साधयितुमनुपक्रांतत्वादिति मतं तदांतरिततत्त्वानां प्रत्यक्षसामान्यतोऽर्हत्प्रत्यक्षतायां साध्यायां न किंचिद्दोषमुत्पश्यामः इति नाप्रसिद्धविशेषणः पक्षः साध्यशून्यो वा दृष्टांतः प्रसज्यते। सांप्रतं हेतोः स्वरूपासिद्धत्वं प्रतिषेधयन्नाह
नचासिद्धं प्रमेयत्वं कात्स्य॑तो भागतोऽपि वा । सर्वथाप्यप्रमेयस्य पदार्थस्याव्यवस्थितेः॥ ९१ ॥ यदि षड्भिः प्रमाणैःस्यात्सर्वज्ञः केन वार्यते । इति ब्रुवन्नशेषार्थप्रमेयत्वमिहेच्छति ॥ ९२॥ चोदनातश्च निःशेषपदार्थज्ञानसंभवे । सिद्धमंतरितार्थानां प्रमेयत्वं समक्षवत् ॥ ९३ ॥
सोऽयं मीमांसकः प्रमाणबलात्सर्वस्यार्थस्य व्यवस्थामभ्युपयन् षड्भिः प्रमाणैः समस्तार्थज्ञानं वाऽनिवारयन् चोदनातो हि भूतं भवंतं भविष्यंत सूक्ष्म व्यवहितं विप्रकृष्टमित्येवं जातीयकमर्थमवगमयितुमलमिति स्वयं प्रतिपद्यमानः सूक्ष्मांतरितदूरार्थानां प्रमेयत्वमस्मत्प्रत्यक्षार्थानामिव कथमपह्नवीत यतः साकल्येन प्रमेयत्वं पक्षाव्यापकमसिद्धं ब्रूयात् । ननु च च प्रमातर्यात्मनि, करणे च ज्ञाने, फले च प्रभितिक्रियालक्षणे, प्रमेयत्वासंभवात् कर्मतामापन्नेष्वेवार्थेषु प्रमेयेषु भावाद्भागासिद्धं साधनं पक्षाव्यापकत्वादिति चेन्नैतदेवं प्रमातुरात्मनः सर्वथाप्यप्रमेयत्वे प्रत्यक्षत इवानुमानादपि प्रमीयमाणत्वाभावप्रसंगात्, प्रत्यक्षेण हि कर्मतयाऽऽत्मा न प्रतीयते इति प्रभाकरदर्शनं न पुनः सर्वेणापि प्रमाणेन, तव्यवस्थापनविरोधात् । करणज्ञान च प्रत्यक्षतः कर्मत्वेनाप्रतीयमानमपि घटाद्यर्थपरिच्छित्त्यन्यथानुपपत्त्यानुमीयमानं न सर्वथाप्यप्रमेयं ज्ञातेत्वनुमानादवगच्छति