________________
१००
श्रीविद्यानंदिस्वामिविरचिता
ज्ञप्तेविरोधाभावात् स्वयं प्रकाशनं हि ज्ञप्तिः । तच्च सूर्यालोकनादौ स्वात्मनि प्रतीयत एव, ‘सूर्यालोकः प्रकाशते' 'प्रदीपः प्रकाशते' इति प्रतीतेः । द्वितीयकल्पना तु न बाधकारिणी, स्वात्मन्युत्पत्तिलक्षणायाः क्रियायाः परैरनभ्युपगमात् । न हि किंचित्स्वस्मादुत्पद्यते इति प्रेक्षावंतोऽनुमन्यते । संवेदनं स्वस्मादुत्पद्यत इति तु दूरोत्सारितमेव । ततः कथं स्वात्मनि क्रियाविरोधो वाधकःस्यात् ? न च सर्वा क्रिया वस्तुनः स्वात्मनि विरुध्यत इति प्रतीतिरस्ति तिष्ठत्यास्ते भवतीति धात्वर्थलक्षणायाः क्रियायाः स्वात्मन्येव प्रतीतेः । तिष्ठत्यादेर्धातोरकर्मकत्वात्कर्मणि क्रियानुत्पत्तेः स्वात्मन्येव कर्तरि स्थानादि क्रियेतिचेत्तर्हि भासते तद्धातोरकर्मकत्वात्कर्मणि क्रियाविरोधात् कर्तर्येवं प्रतिभासनक्रियाऽस्तु ज्ञानं प्रतिभासत इति प्रतीतेः । सिद्धे च ज्ञानस्य स्वयं प्रतिभासमानत्वे सकलस्य वस्तुनः स्वतः प्रतिभासमानत्वं सिद्धमेव । सुखं प्रतिभासते रूपं प्रतिभासत इत्यंतर्बहिर्वस्तुनः स्वातंत्र्येण कर्तृतामनुभवतः प्रतिभासनक्रियाधिकरणस्य प्रतिभासमानस्य निराकर्तुमशक्तेः । ततो नासिद्धं साधनं यतः पुरुषाद्वैतं न साधयेत् । नापि विरुद्धं परतः प्रतिभासमानत्वाप्रतीतेः, कस्यचित्प्रतिभासाद्वर्हिर्भावासाधनात् । एतेन परोक्षज्ञानवादिनः संवेदनस्य स्वयं प्रतिभासमानत्वमसिद्धमाचक्षाणाः सकल ज्ञेयस्य ज्ञानस्य च ज्ञानात्प्रतिभासमानत्वात्साधनस्य विरुद्धतामभिदधानाः प्रतिध्वस्ताः ज्ञानं प्रकाशते बहिर्वस्तु प्रकाशत इति प्रतीत्या स्वयं प्रतिभासमानत्वस्य साधनस्य व्यवस्थापनात् । ये त्वात्मा स्वयं प्रकाशते फलज्ञानं चेत्या-- वेदयति तेषामात्मनि फलज्ञाने वा स्वयं प्रतिभासमानत्वं सिद्धं सर्वस्य वस्तुनः प्रतिभासमानत्वं साधयत्येव । तथाहि-विवादाध्यासितं वस्तु स्वयं प्रतिभासते प्रतिभासमानत्वात् । यद्यत्प्रतिभासमानं तत्तत्स्वयं प्रतिभासते