________________
आप्तपरीक्षा।
१०१
यथा भट्टमतानुसारिणामात्मा प्रभाकरमतानुसारिणां वा फलज्ञानं । प्रतिभासमानं चांतर्बहिर्वस्तु ज्ञानज्ञेयरूपं विवादाध्यासितं तस्मात्स्वयं प्रतिभासते । न तावदत्र प्रतिभासमानत्वमसिद्धं सर्वस्य वस्तुनः सर्वथाऽप्यप्रतिभासमानस्य सद्भावविरोधात् । साक्षादसाक्षाच्च प्रतिभासमानस्य तु सिद्धं प्रतिभासमानत्वं ततो भवत्येव साध्यसिद्धिः साध्याविनाभावनियमनिश्चयादिति निरवचं पुरुषाद्वैतसाधनं संवेदनाद्वैतवादिनोऽभीष्टहानये भवत्येव । नहि कार्यकारणग्राह्यग्राहकवाच्यवाचकसाध्यसाधकबाध्यबाधकविशेषणविशेष्यभावनिराकरणात् संवेदनाद्वैतं व्यवस्थापयितुं शक्य कार्यकारणभावादीनां प्रतिभासमानत्वात् प्रतिभासमात्रांतःप्रविष्टानां निराकर्तुमशक्तेः, स्वयमप्रतिभासमानानां तु संभवाभावात्संवृत्यापि व्यवहारविरोधात् सकलविकल्पवाग्गोचरातिक्रांततापत्तेः । संवेदनमात्रं चैकक्षणस्थायि यदि किंचित्कार्य न कुर्यात्तदा वस्त्वेव न स्यात् , वस्तुनोऽर्थक्रियाकारित्वलक्षणत्वात् । करोति चेत्कार्यकारणभावः सिध्येत् । तस्य हेतुमत्वेच स एवकार्यकारणभावः कारणरहितत्वे तु नित्यतापत्तिः संवेदनस्य, सतोऽकारणवतो नित्यत्वप्रसिद्धेरिति प्रतिभासमात्मनः पुरुषतत्वस्यैव सिद्धिः स्यात् । किंच क्षणिकसंवेदनमात्रस्य ग्राह्यग्राहकवैधुर्य यदि केनचित्प्रमाणेन गृह्यते तदा ग्राह्यग्राहकभावः कथं निराक्रियेत । न गृह्यते चेत्कुतो ग्राह्यग्राहकवैधुर्यसिद्धिः ? स्वरूपसंवेदनादेवेति चेत्तर्हि संवेदनाद्वैतस्य स्वरूपसंवेदनं ग्राहकं ग्राह्यग्राहकवैधुर्य तु ग्राह्यमिति स एव ग्राह्यग्राहकभावः । स्यान्मतं “ नान्योऽनुभाव्योबुद्धयाऽस्ति तस्यानानुभवोऽपरः । ग्राह्यग्राहकवैधुर्यात्स्वयं सैव प्रकाशते" इति वचनान्न बुद्धेः किंचिद्ग्राह्यमस्ति नापि बुद्धिः कस्यचिद्ग्राह्या स्वरूपेऽपि ग्राह्यग्राहकभावाभावात् ‘स्वरूपस्य स्वतोगति' रित्येतस्यापि