________________
१०२
श्रीविद्यानंदिस्वामिविरचिता
संवृत्याभिधानात् परमार्थतस्तु बुद्धिः स्वयं प्रकाशते चकास्तीत्येवोच्यते न पुनः स्वरूपं गृह्णाति ग्राह्यग्राहकवैधुर्य च स्वरूपादव्यतिरिक्तं गृह्णाति जानातीत्यभिधीयते निरंशसंवेदनाद्वैते तथाभिधानविरोधादिति । तदपि न पुरुषाद्वैतवादिनः प्रतिकूलं स्वयं प्रकाशमानस्य संवेदनस्यैव परमपुरुषत्वात् । नहि तत्संवेदनं पूर्वापरकालव्यवच्छिन्नं संतानांतरबहिरर्थव्यावृत्तं च प्रतिभासते यतः पूर्वापरक्षणसंतानांतरबहिरानामभावः सिद्धयेत्। तेषां संवेदनेनाग्रहणादभाव इतिचेत् स्वसंवेदनस्यापि संवेदनांतरेणाग्रहणादभावोऽस्तु । तस्य स्वयं प्रकाशनान्नाभाव इतिचेत् पूर्वोत्तरस्वसंवित्क्षणानां संतानांतरसंवेदनानांच बहिरर्थानामिव स्वयं प्रकाशमानानां कथमभावः साध्यते । कथं तेषां स्वयं प्रकाशमानत्वं ज्ञायत इतिचेत् स्वयमप्रकाशमानत्वं तेषां कथं साध्यत इति समानः पर्यनुयोगः । स्वसंवेदन स्वरूपस्य प्रकाशमानत्वमेव तेषामप्रकाशमानत्वमितिचेत्तर्हि तेषां प्रकाशमानत्वमेव स्वसंवेदनस्यैवाप्रकाशमानत्वं किं न स्यात् ? स्वसंवेदनस्य स्वयमप्रकाशमानत्वे परैः प्रकाशमानत्वाभावः साधयितुमशक्यः प्रतिषेधस्य विधेर्विषयत्वात् सर्वत्र सर्वदा सर्वथाऽप्यसतः प्रतिषेधविरोधात् इतिचेत्तर्हि स्वसंवेदनात्परेषां प्रकाशमानत्वाभावे कथं तत्प्रतिषेधः साध्यत इति समानश्चर्चः । विकल्पप्रतिभासिनां तेषां स्वसंवेदनावभासित्वं प्रतिषिध्यत इतिचेन्न विकल्पावभासित्वादेव स्वयं प्रकाशमानत्वसिद्धेः । तथाहि-यद्यद्विकल्पप्रतिभासि तत्तत्स्वयं प्रकाशते यथा विकल्पस्वरूपं तथा च स्वसंवेदनपूर्वोत्तरक्षणाः संतानांतरसंवेदनानि बहिरर्थाश्चेति स्वयं प्रकाशमानत्वसिद्धिः । शशविषाणादिभिर्विनष्टानुत्पन्नैश्च भावैर्विकल्पावभासिभिर्व्यभिचार इति चेन्न तेषामपि प्रतिभासमात्रांतर्भूतानां स्वयं प्रकाशमानत्वसिद्धेः अन्यथा विकल्पावभासित्वायोगात् । सोऽयं सौगतः सकलदेशका