________________
आप्तपरीक्षा।
mmrammar.maare
हिभूर्तस्य द्वितीयत्वायोगात् । एतेन षोडशपदार्थप्रतीत्या प्रागभावादिप्रतीत्या च पुरुषाद्वैतं बाध्यत इति वदन्निवारितः । तैरपि प्रतिभासमानैर्द्रच्यादिपदार्थरिव प्रतिभासमात्रादवहिभूतैः पुरुषाद्वैतस्य बाधनायोगात्।स्वयमप्रतिभासमानस्तु सद्भावव्यवस्थामप्रतिपद्यमानैस्तस्य बाधने शशविषाणादिभिरपि स्वेष्टपदार्थनियमस्य बाधनप्रसंगात् । एतेन सांख्यादिपरिकल्पितैरपि प्रकृत्यादितत्वैः पुरुषाद्वैतं न बाध्यते इति निगदितं बोद्धव्यं । न चात्र पुरुषाद्वैते यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टौ योगांगानि योगो वा संप्रज्ञातोऽसंप्रज्ञातश्च योगफलं च विभूतिकैवल्यलक्षणं विरुध्यते प्रतिभासमात्रात्तबहिर्भावाभावात् प्रतिभासमानत्वेन तथाभावप्रसिद्धेः । येऽप्याहुः प्रतिभासमानस्यापि वस्तुनः प्रतिभासाद्भेदप्रसिद्धेः न प्रतिभासांतःप्रविष्टत्वं प्रतिभासो हि ज्ञानं स्वयं न प्रतिभासते स्वात्मनि क्रियाविरोधात्तस्य ज्ञानांतरवेद्यत्वसिद्धेर्नापि तद्विषयभतं वस्तु स्वयं प्रतिभासमानं तस्य ज्ञेयत्वात् । ज्ञानेनैव प्रतिभासत्वसिद्धेरिति स्वयं प्रतिभासमानत्वं साधनमसिद्धं न कस्यचित्प्रतिभासांतःप्रविष्टत्वं साधयेत् । परतःप्रतिभासमानत्वं तु विरुद्धं प्रतिभासबहिर्भावसाधनत्वादिति तेऽपि स्वदर्शनपक्षपातिन एव ज्ञानस्य स्वयमप्रतिभासने ज्ञानांतरादपि प्रतिभासनविरोधात् प्रतिभासत इति प्रतिभासैकतया स्वातंत्र्येण प्रतीतिविरोधात् प्रतिभास्यत इत्येवं प्रत्ययप्रसंगात् तस्य परेण ज्ञानेन प्रतिभासमानत्वात्, परस्य ज्ञानस्य च ज्ञानांतरप्रतिभासने प्रतिभासतइति संप्रत्ययो न स्यात् संवेदनांतरेण प्रतिभास्यत्वात् । तथा चानवस्थानान्न किंचित्संवेदनं व्यवतिष्ठते । नच ज्ञानं प्रतिभासत इति प्रतीतिभ्रीता वाधकाभावात् । स्वात्मनि क्रियाविरोधो बाधक इति चेत्का पुनः स्वात्मनि क्रिया विरुध्यते ज्ञप्तिरुत्पत्तिा ? न तावत्प्रथमकल्पना स्वात्मनि