________________
૨૮
श्रीविद्यानंदिस्वामिविरचिता
द्वैतं फलद्वैतं लोकद्वैतं च नो भवेत् । विद्याविद्याद्वयं न स्याद्वंधमोक्षद्वयं तथेति " तदपि प्रत्याख्यातं, क्रियाणां कारकाणां च दृष्टस्य भेदस्य प्रतिभासमानस्य पुण्यपापकर्मद्वैतस्य तत्फलद्वैतस्य च सुखदुःखलक्षणस्य लोकद्वैतस्येह परलोकविकल्पस्य विद्याविद्याद्वैतस्य च सत्येतरज्ञानभेदस्य बंधमोक्षद्वयस्य च पारतंत्र्यस्वभावस्य प्रतिभासमात्रांतः प्रविष्टत्वाद्विरोधकत्वासिद्धेः स्वयमप्रतिभासमानस्य च विरोधकत्वं दुरुपपादं स्वष्टतत्त्वस्यापि सर्वेषामप्रतिभासमानेन विरोधकेन विरोधापत्तेर्न किंचित्तत्वमविरुद्धं स्यात् यदप्यभ्यधायि “ हेतोरद्वैतसिद्धिश्चेद्वैतं स्याद्धेतुसाध्ययोः । हेतुना चेद्विना सिद्धिद्वैतं वाङ्मात्रतो न किं " इति । तदपि न पुरुषाद्वैतवादिनः प्रतिक्षेपकं प्रतिभासमानत्वस्य हेतोः सर्वस्य प्रतिभासमात्रांतः प्रविष्टत्वसाधनस्य स्वयं प्रतिभासे प्रतिभासमात्रांतः प्रविष्टत्वसिद्धेद्वैतसिद्धिनिबंधनत्वाभावात् । हेतुना विना चोपनिषद्वाक्यमात्रात्पुरुषाद्वैतसिद्धौ न वाङ्मात्रादद्वैतसिद्धिः प्रसज्यते न चोपनिषद्वाक्यमपि परमपुरुषादन्यदेव तस्य प्रतिभासमानस्य परमपुरुष स्वभावत्वसिद्धेः। यदपि कैश्चिन्निगद्यते पुरुषाद्वैतस्यानुमानात्प्रसिद्ध पक्षहेतुदृष्टांतानामवश्यंभावात् तैर्विनाऽनुमानस्यानुदयात्कुतः पुरुषाद्वैतं सिध्येत् ? पक्षादिभेदस्य सिद्धेरिति तदपि न युक्तिमत् । पक्षादीनामपि प्रतिभासमानानां प्रतिभासांतः प्रविष्टानां प्रतिभासमात्राबाधकत्वादनुमानवत् । तेषामप्रतिभासमानानां तु सद्भावाप्रसिद्धेः कुतः पुरुषाद्वैतविरोधित्वं । यदप्युच्यते कैश्चित्पुरुषाद्वैतं तत्त्वं परेण प्रमान प्रतीयमानं प्रमेयं तत्त्वं तत्परिच्छित्तिश्च प्रमितिः प्रमाता च यदि विद्यते तदा कथं पुरुषाद्वैतं प्रमाणप्रमेयप्रमातृप्रमितीनां तात्विकीनां सद्भावात्तत्वचतुष्टयप्रसिद्धिरिति । तदपि न विचारक्षमं | प्रमाणादिचतुष्टयस्यापि प्रतिभासमानस्य प्रतिभासमात्रात्मनः परमब्रह्मणो बहिर्भावाभावात् तदब