________________
आप्तपरीक्षा।
विशेषस्य देशांतरप्रतिभासविशेषेण विच्छेदेऽपि प्रतिभासमात्रस्याविच्छेदादिति न देशविच्छन्नं प्रतिभासमात्र नाप्याकारविच्छिन्नं केनचिदाकारेण प्रतिभासविशेषस्यैवाकारांतरप्रतिभासविशेषेण विच्छेदोपलब्धेः प्रतिभासमात्रस्य सर्वाकारप्रतिभासविशेषेषु सद्भावादाकारेणाप्यविच्छिन्नं तत्, प्रतिभासविशेषाश्च देशकालाकारैर्विच्छिद्यमानाः यदि न प्रतिभासंते तदा न तद्वयवस्थाऽतिप्रसंगात् प्रतिभासन्ते चेत्प्रतिभासमात्रांतःप्रविष्टा एव प्रतिभासस्वरूपवत् । नहि प्रतिभासमानं किंचित्प्रतिभासमात्रांतःप्रविष्टं नोपलब्धं येनानैकांतिकं प्रतिभासमानत्वं स्यात् तथा देशकालाकारभेदाश्च परैरभ्युपगम्यमाना यदि न प्रतिभासंते कथमभ्युपगमाहीः स्वयमप्रतिभासमानस्यापि कस्यचिदभ्युपगमेऽतिप्रसंगानिवृत्तेः, प्रतिभासमानास्तु तेऽपि प्रतिभासमात्रांतःप्रविष्टा एवेति कथं तैः प्रतिभासमात्रस्य विच्छेदः स्वरूपेणास्वरूपेण स्वस्य विच्छेदानुपपत्तेः सन्नपि देशकालाकारैर्विच्छेदः प्रतिभासमात्रस्य प्रतिभासते न वा ? प्रतिभासते चेत्प्रतिभासस्वरूपमेव तस्य च विच्छेद इति नामकरणे न किंचिदनिष्टं । न प्रतिभासतेचेत्कथमस्ति न प्रतिभासते चास्तिवेतिविप्रतिषेधात् । ननु च देशकालस्वभावविप्रकृष्टाः कथंचिदप्रतिभासमाना अपि संतः सद्भिबांधकाभावादिष्यंत एवेति चेन्न, तेषामपि शब्दज्ञानेनानुमानज्ञानेन वा प्रतिभासमानत्वात् । तत्राप्यप्रतिभासमानानां सर्वथाऽस्तित्वव्यवस्थानुपपत्तेः । नन्वेवं शब्दविकल्पज्ञाने प्रतिभासमानाः परस्परविरुद्धार्थप्रवादाः शशविषाणादयश्च नष्टानुत्पन्नाश्च रावणशंखचक्रवर्त्यादयः कथमपाक्रियते तेषामनपाकरणे कथं पुरुषाद्वैतसिद्धिरिति चेन्न । तेषामपि प्रतिभासमात्रांतःप्रविष्टत्वसाधनात् । एतेन यदुच्यते कैश्चित् “ अद्वैतैकांतपक्षेऽपि दृष्टोभेदो विरुध्यते । कारकाणां क्रियायाश्च नैकं स्वस्मात्प्रजायते । कर्म