________________
श्रीविद्यानंदिस्वामिविरचिता
९६
स्वतोऽन्यतो वा प्रतिपत्त्यभावादित्याहयत्तु संवेदनाद्वैतं पुरुषाद्वैतवन्न तत् । सिद्धयेत्स्वतोऽन्यतो वापि प्रमाणात्स्वेष्टहानितः ॥ ८५ ॥ ताद्ध संवेदनाद्वैतं न तावत्स्वतः सिध्यति पुरुषाद्वैतवत् । स्वरूपस्य स्वतोगतेरभावात्। अन्यथा कस्यचित्तत्र विप्रतिपत्तेरयोगात् पुरुषाद्वैतस्यापि प्रसिद्धेरिष्टहानिप्रसंगाच्च । ननु च पुरुषाद्वैतं न स्वतोऽवसीयते तस्य नित्यस्य सकलकालकलापव्यापितया सर्वगतस्य च सकलदेशप्रतिष्ठिततया वाऽनुभवाभावादिति चेन्न । संवेदनाद्वैतस्यापि क्षणिकस्यैकक्षणस्थायितया निरंशस्यैकपरमाणुरूपतया सकृदप्यनुभवाभावाविशेषात् । यदि पुनरन्यतः प्रमाणासंवेदनाद्वैतसिद्धिः स्यात् तदापि स्वेष्टहानिरवश्यंभाविनी साध्यसाधनयोरम्युपगमे द्वैतसिद्धिप्रसंगात् । यथा चानुमानात्संवेदनाद्वैतं साध्यते । यत्संवेद्यते तत्संवेदनमेव यथा संवेदनस्वरूप संवेद्यन्ते च नीलसुखादीनि । तथा पुरुषाद्वैतमपि वेदांतवादिभिः साध्यते । प्रतिभासएवेदं सर्वं प्रतिभासमानत्वात्, यद्यत्प्रतिभासमानं तत्तत्प्रतिभासएव यथा प्रतिभासस्वरूपं प्रतिभासमानं चेदं जगत्तस्मात्प्रतिभास एवेत्यनुमानात् । नह्यत्रजगतः प्रतिभासमानत्वम सिद्धं साक्षादसाक्षाच्च तस्याऽप्रतिभासमानत्वे सकलशब्दविकल्प वाग्गोचरातिक्रांततया वक्तुमशक्तेः प्रतिभासश्च चिद्रूपएव अचिद्रूपस्य प्रतिभासत्वविरोधात् । चिन्मात्रं च पुरुषाद्वैतं तस्य च देशकालाकारतो विच्छेदानुपलक्षणत्वात् नित्यत्वं सर्वगतत्वं साकारत्वं च व्यवतिष्ठते । नहि स कश्चित्कालोऽस्ति यश्चिन्मात्रप्रतिभासशून्यः प्रतिभासविशेषस्यैव विच्छेदान्नीलसुखादिप्रतिभासविशेषवत् । सह्येकदा प्रतिभासमानोऽन्यदा न प्रतिभासते प्रतिभासांतरेण विच्छेदात्प्रतिभासमात्रं तु सकलप्रतिभासविशेषकालेऽप्यस्तीति न कालतो विच्छिन्नं, नापि देशतः क्वचिदेशे प्रतिभास