________________
श्रीविद्यानंदिस्वामिविरचितारेण । शिष्टाचारपरिपालनार्थ नास्तिकतापरिहारार्थ निर्विघ्नतः शास्त्रपरिसमाप्त्यर्थं च परमेष्ठिगुणस्तोत्रमित्यन्ये । तेऽपि तदेव तथेति नियमयितुमसमर्था एव । तपश्चरणादेरपि तथात्वप्रसिद्धेः । न हि तपश्चरणादिः शिष्टाचारपरिपालनाद्यर्थ न भवतीति शक्यं वक्तुं । यदि पुनरनियमेन भगवद्गुणसंस्तवनं शिष्टाचारपरिपालनाद्यर्थमभिधीयते तदा तदेव शास्त्रादौ शास्त्रकारैः कर्तव्यमिति नियमो न सिद्धयति । न च क्वचित्तन्न क्रियते इति वाच्यं । तस्य शास्त्रे निबद्धस्यानिबद्धस्य वा वाचिकस्य मानसस्य वा विस्तरतः संक्षेपतो वा शास्त्रकारैरवश्यं करणात् । तदकरणे तेषां तत्कृतोपकारविस्मरणादसाधुत्वप्रसंगात् । साधूनां कृतस्योपकारस्याविस्मरणप्रसिद्धेः । ' न हि कृतमुपकारं साधवो विस्मरंति ' इति वचनात् । यदि पुनः स्वगुरोः संस्मरणपूर्वकं शास्त्रकरणमेवोपकारस्तद्विनेयानामिति मतं, तदा सिद्धं परमेष्ठिगुणस्तोत्रं, स्वगुरोरेव परमेष्ठित्वात् । तस्य गुरुत्वेन संस्मरणस्यैव तद्गुणस्तोत्रत्वसिद्धेरित्यलं विवादेन । किं पुनस्तत्परमेष्ठिनो गुणस्तोत्रं शास्त्रादौ सूत्रकाराः प्राहुरिति निगद्यते
मोक्षमार्गस्य नेतारं भेत्तारं कर्मभूभृतां । ज्ञातारं विश्वतत्वानां वंदे तद्गुणलब्धये ॥१॥ अत्र मोक्षमार्गादिपदानामर्थः पुरस्ताद्वक्ष्यते । वाक्यार्थस्तुच्यते । मोक्षमार्गस्य नेतारं कर्मभूभृतां भेत्तारं विश्वतत्त्वानां ज्ञातारमहं वंदे तद्गुणलब्ध्यर्थित्वात् । यो यद्गुणलब्ध्यर्थी स तं वंदमानो दृष्टः । यथा शस्त्रविद्यादिगुणलब्ध्यर्थी शस्त्रविद्यादिविदं तत्प्रणेतारं च । तथा चाहं मोक्षमार्गप्रणेतृत्वकर्मभभृद्धेतृत्वविश्वतत्त्वज्ञातृत्वगुणलब्ध्यर्थी, तस्मान्मोक्षमार्गस्य नेतारं कर्मभूभृतां भेत्तारं विश्वतत्त्वानां ज्ञातारं वंदे इति शास्त्रकारः शास्त्रप्रारंभे श्रोता तस्य व्याख्याता वा भगवंतं परमेष्ठिनं परमपरं