________________
७५
आपरीक्षा।
PASS M3
भावसद्भावप्रतिभावामावस्याभावप्रसिद्धिवत् तथा च कार्यसद्भाव एव तदभावाभावः कार्याभाव एव च तद्भावस्याभाव इत्यभावविनाशकद्भावविनाशप्रसिद्धेः न भावाभावौ परस्परमतिशयाते यतस्तयोरन्यतरस्यैवैकत्वनित्यत्वे नानात्वानित्यत्वे वा व्यवतिष्ठते । तदनेनासत्वस्य नानात्वमनित्यत्वं च प्रतिजानता सत्वस्यापि तत्प्रतिज्ञातव्यमिति कथंचित्सत्तैका सदिति प्रत्ययाविशेषात् । कथंचिदनेका प्राक्सदित्यादि सत्प्रत्ययभेदात्। कथंचिन्नित्या सैवेयंसत्तेतिप्रत्यभिज्ञानात् कथंचिदनित्या कालभेदात् पूर्वसत्ता पश्चात्सत्तेति सत्प्रत्ययभेदात् सकलबाधकामावादनुमंतव्या तत्प्रतिपक्षमताऽसत्तावत् । ततः समवायिविशेषणविशिष्टेहेदं प्रत्ययहेतु. त्वात् समवायः समवायिविशेषप्रतिनियमहेतुर्द्रव्यादिविशेषणविशिष्टसत्प्र-- त्ययहेतुत्वावव्यादिविशेष प्रतिनियमहेतुसत्तावदितिविषमउपन्यासः सत्ताया नानात्वसाधनात् तद्वत्समवायस्य नानात्वसिद्धेः सोऽपि हि कथंचिदेक एव इहेदंप्रत्ययाविशेषात् । कथंचिदनेक एव नानासमवायिविशिष्टहेदप्रत्ययभेदात् । कथंचिन्नित्य एव प्रत्यभिज्ञायमानत्वात् । कथंचिदनित्य एव कालभेदेन प्रतीयमानत्वात् । नचैकत्राधिकरणे परस्परमेकत्वानेकत्वेनित्यत्वानित्यत्वे वा विरुद्धे, सकलबाधकरहितत्वे सत्युपलभ्यमानत्वात् कथंचित्सत्वासत्ववत् । यदप्यभ्यधायि सत्वासत्वे नैकत्र वस्तुनि सकृत्संभवतस्तयोः विधिप्रतिषेधरूपत्वात् । ययोविधिप्रति. षेधरूपत्वं ते नैकत्र वस्तुनि सकृत्संभवतो यथा शीतत्वाशीतत्वे । विधिप्रतिषेधरूपे च सत्वासत्वे तस्मान्नैकत्रवस्तुनि सकृत्संभवत इति । तदप्यनुपपन्नं वस्तुन्येकत्राभिधेयत्वानभिधेयत्वाभ्यां सकृत्संभवद्भयां व्यभिचारात् । कस्यचित्स्वाभिधायकाभिधानापेक्षया अभिधेयत्वमन्याभिधायकाभिधानापेक्षया चानाभिधेयत्वं सकृदुपलभ्यमानमबाधितमेकत्रा