________________
श्रीविद्यानंदिस्वामिविरचिता
पटस्य प्रागभाव इत्यादि विशेषणभेदेऽप्यभावो भिद्यते घटस्य सत्ता पटस्य सत्तेत्यादिविशेषणभेदेऽपि सत्तावत् । ननु प्रागभावस्य नित्यत्वे कार्योत्पत्तिर्नस्यात्तस्य तत्प्रतिबंधकत्वात्तदप्रतिबंधकत्वे प्रागपि कार्योत्पत्तेः कार्यस्यानादित्वप्रसंग इतिचेत् तर्हि सत्ताया नित्यत्वे कार्यस्य प्रध्वंसो न स्यात् तस्यास्तत्प्रतिबंधकत्वात् तदप्रतिबंधकत्वे प्रध्वंसात् प्रागपि प्रध्वंसप्रसंगात् कार्यस्य स्थितिरेव न स्यात्, कार्यसत्ता हि प्रध्वंसात् प्राक् प्रध्वंसस्य प्रतिघातिकेति कार्यस्य स्थितिः सिद्धयेन्नान्यथा । यदि पुनर्बलवत्प्रध्वंसकारणसन्निपाते कार्यस्य सत्ता न प्रध्वंसं प्रतिबध्नाति ततः पूर्व तु बलवद्विनाशकारणाभावात् प्रध्वंसं प्रतिवन्नात्येव ततो न प्रागपि प्रध्वंसप्रसंग, इति मतं तदा बलवदुत्पादककारणोपधानात् कार्यस्योत्पादं प्रागभावः सन्नपि न विरुणद्धि कार्योत्पादनात्पूर्वे तदुत्पादककारणाभावात् तं विरुणद्धि ततो न प्रागपि कार्योत्पत्तिर्येन कार्यस्यानादित्वप्रसंग, इति प्रागभावस्य सर्वदा सद्भावो मन्यतां सत्तावत् । तथाचैक एव सर्वत्र प्रागभावो व्यवतिष्ठते । प्रध्वंसाभावश्च न प्रागभावादर्थांतरभूतः स्यात् कार्यविनाशविशिष्टस्य तस्यैव प्रध्वंसाभाव इत्यभिधानात् तस्यैवेतरेतरव्यावृत्तिविशिष्टस्येतरेतराभावाभिधानवत् । ननु च कार्यस्य विनाश एव प्रध्वंसाभावो न पुनस्ततोऽन्यः येन विनाशविशिष्टः प्रध्वंसाभाव इत्यभिधीयते नापीतरेतरव्यावृत्तिरितरेतराभावादन्यायेन तया विशिष्टस्येतरेतराभावाभिधानमिति चेत् तहींदानीं कार्यस्योत्पादएव प्रागभावाभावस्ततोऽयतरस्यासंभवात् कथं तेन कार्यस्य प्रतिबंधः सिध्येत् कार्योत्पादात्प्रागभावाभावस्यार्थांतरत्वे प्रागेव कार्योत्पादः स्यात् शश्वदभावाभावे शश्वत्सद्भाववत् । नह्यन्यदैवाभावस्याभावो ऽन्यदैव भावस्य सद्भाव इति अभावाभावसद्भावयोः कालभेदो युक्तः सर्वत्राभावाभावस्यैक
७४