________________
आप्तपरीक्षा।
११५
अत्यंतपरोक्षाश्च धर्मादयस्तस्मान्न कस्यचित्प्रयक्षा इति । न तावदत्यं. तपरोक्षत्वं धर्मादीनामसिद्धं कदाचित्क्वचित्कथञ्चित्कस्यचित्प्रत्यक्षत्वासिद्धे. सर्वस्य प्रत्यक्षस्य तद्विषयत्वाभावात् । तथाहि-विवादाध्यासितं प्रत्यक्ष न धर्माद्यर्थविषयं प्रत्यक्षशब्दवाच्यत्वाद्यदित्थं तदित्थं यथास्मदादिप्रत्यक्षं प्रत्यक्षशब्दवाच्यं च विवादाध्यासितं तत्प्रत्यक्षं तस्मान्न धर्माद्यर्थविषयं इत्यनुमानेन धर्माद्यर्थविषयस्य प्रत्यक्षस्य निराकरणात् , न चेदमस्मदादिप्रत्यक्षागोचरविप्रकृष्टार्थग्राहिगृद्धवराहपिपीलिकादिचक्षुःश्रोत्रघ्राणः प्रत्यक्षैर्व्यभिचारि साधनं तेषामपि धर्मादिसूक्ष्माद्यर्थाविषयत्वादस्मदादिप्रत्यक्षविषयसनातीयार्थग्रहणानतिकमात्स्वविषयस्यैवेंद्रियेण ग्रहणादिद्रियांतरविषयस्यापरिच्छित्तेः । ननु च प्रज्ञामेधास्मृतिश्रुत्यूहापोहप्रबोधशक्तीनां प्रतिपुरुषमतिशयदर्शनात्कस्यचित्सातिशयं प्रत्यक्षं सिध्यत्परां काष्ठामापद्यमानं धर्मादिसक्ष्माद्यर्थसाक्षात्कारि संभाव्यतएव इत्यपि न मंतव्यं, प्रज्ञामेधादिभिः पुरुषाणां स्तोकस्तोकांतरत्वेन सातिशयत्वदर्शनात्, कस्यचिदतींद्रियार्थदर्शनानुपलब्धः । तदुक्तं भट्टेन “ येऽपि सातिशया दृष्टाः प्रज्ञामेधादिभिर्नराः । स्तोकस्तोकांतरत्वेन न त्वतींद्रियदर्शनादिति " । ननु च कश्चित्प्रज्ञावान्पुरुषः शास्त्रविषयान् सक्ष्मानर्थानुपलब्धुं प्रभुरुपलभ्यते तद्वत्प्रत्यक्षतोऽपि धर्मादिसूक्ष्मानर्थान् साक्षा स्कर्तु क्षमः किमिति न संभाव्यते ? ज्ञानातिशयानां नियमायतुमशक्तेरित्यपि न चेतसि विधेयं, तस्य स्वजात्यनतिक्रमेणैव सातिशयोपपत्तेः । नहि सातिशयं व्याकरणमतिदूरमपि जानानो नक्षत्रग्रहचक्रा तिचारादिनिर्णयेन ज्योतिःशास्त्रविदोऽतिशेते, तद्वुद्धेः शब्दापशब्दयोरेव प्रकर्षापषत्तेः वैयाकरणांतरातिशायनस्यैव संभवात् । ज्योतिर्विदोऽपि चंद्रार्कग्रहणादिषु निर्णयेन प्रकर्ष प्रतिपद्यमानस्यापि न भवत्यादिशब्द