________________
श्रीविद्यानंदिस्वामिविरचिता
awra.wwwwwwwwwwwwwwwwwww...mm.wwwxx
न विपाकांतानि यथा कालादीनि, विपाकांतानि च कर्माणि तस्मान्निजर्जीयते । विपाकांतत्वं नासिद्धं कर्मणां । तथा हि विपाकांतानि कर्माणि फलावसानत्वादीह्यादिवत् । तेषामन्यथा नित्यत्वानुषंगात् । न च नित्यानि कर्माणि नित्यं तत्फलानुभवनप्रसंगात् । यत्र चात्मविशेषे
अनागतकर्मबंधहेत्वभावादपूर्वकर्मानुत्पत्तिस्तत्र पूर्वोपात्तकर्मणां यथाकालमुपक्रमाच्च फलदानात्कात्स्न्येन निर्जरा प्रसिद्धैव । ततः कृत्स्नबंधहेत्वभावनिर्जरावत्त्वं साधनं प्रसिद्धं कृत्स्नकर्मविप्रमोक्षं साधयत्येव । ततस्तलक्षणं परं निःश्रेयसं व्यवतिष्ठते । तथाऽऽर्हत्यलक्षणमपरं सुनिश्चितासंभवबाधकप्रमाणत्वात् सुखादिवदिति सर्वज्ञत्वसिद्धौ निर्णेष्यते । श्रेयसो मार्गः श्रेयोमार्गो निःश्रेयसोपायो वक्ष्यमाणलक्षणस्तस्य संसिद्धिः संप्राप्तिः सम्यग्ज्ञप्तिर्वा, सा हि परमेष्ठिनः प्रसादाद्भवति मुनिपुंगवानां यस्मात्तस्मात्ते मुनिपुंगवाः सूत्रकारादयः शास्त्रस्यादौ तस्य परमेष्ठिनो गुणस्तोत्रमाहुरिति संबंधः । परमेष्ठी हि भगवान् परमोऽर्हन् तत्प्रसादात्परमागमार्थनिर्णयोऽपरस्य परमेष्ठिनो गणधरदेवादेः संपद्यते तस्माच्चापरपरमेष्ठिनः परमागमशब्दसंदर्भो द्वादशांग, इति परापरपरमेष्ठिम्यां परमागमार्थशब्दशरीरसंसिद्धिस्तद्विनेयमुख्यानां, तेभ्यश्च स्वशिष्याणामिति गुरुपूर्वक्रमात्सूत्रकाराणां परमेष्ठिनः प्रसादात्प्रधानभूतपरमार्थस्य श्रेयोमार्गस्य संसिद्धिरभिधीयते । प्रसादः पुनः परमेष्ठिनस्तद्विनेयानां प्रसन्नमनोविषयत्वमेव, वीतरागाणां तुष्टिलक्षणप्रसादासंभवात्कोपासंभववत् । तदाराधकजनैस्तु प्रसन्नेन मनसोपास्यमानो भगवान् प्रसन्न इत्यभिधीयते रसायनवत् । यथैव हि प्रसन्नेन मनसा रसायनमाव्य तत्फलमवाप्नुवंतः संतो रसायनप्रसादादिदमस्माकमारोग्यादिफलं समुत्पन्नमिति प्रतिपद्यते तथा प्रसन्नेन मनसा भगवंतं परमेष्ठिनमुपास्य तदुपासनफलं श्रेयोमार्गाधि