Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi

View full book text
Previous | Next

Page 663
________________ ८५ परिच्छदः] रुचिराख्यया व्याख्यया समेतः । अन्यहरविकृष्टचापमदनक्रोधानलोद्दीपितं शम्भोमिनरसं समाधिसमये नेत्रत्रयं पातु वः ॥ ५९॥" इत्यत्र शान्तशृङ्गाररौद्रपरिपुष्टा भगवद्विषया रतिः। यथा वा "क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोंऽशुकान्त गृह्णन् केशेष्वणस्तश्चरणनिपतितो नेक्षितः सभ्रमेण ।। आलिङ्गन् योऽवधूत स्त्रिपुग्युवतिभिः सानुनेत्रोत्पलाभिः कामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराग्निः ॥ ६०॥" इत्यत्र कविगता भगवद्विषया रतिः प्रधान, तस्याः परिपोषकतया भगवतस्त्रिपुरध्वस प्रत्यु. साहस्य अपरिपुष्टतया रसपदवीमप्राप्ततया भावमात्रस्य करुणोऽङ्गम् । तस्य च 'कामीवे'ति साम्यबलादायातः शृङ्गारः । एवं च-अविश्रान्तिधामतया करुणस्थाप्यङ्गतैवेति द्वयोरपि करुणशृङ्गारयोर्भगवदुत्साहपरिपुष्टतद्विषयरतिभावास्वादप्रकर्षकतया योगपद्यसद्भावादङ्गत्वेन न विरोधः। ननु समूहालम्बनात्मकपूर्णघनानन्दरूपस्य रसस्य तादृशेन इतररसेन कथं विरोधः सम्भा भावालसं सम्भोगस्य चुम्बनपरिमर्दनरूपयोर्भावोऽभिप्रायस्तेनालसं निश्चलम् । अन्यत् तृतीयं नेत्रमिति भावः । दरविकृष्टचापमदनक्रोधानलोद्दीपितं दूरमत्यन्तं विकृष्ट आकृष्टः चापो धनुर्येन तादृशो यो मदनस्तस्मिन् क्रोधः स एवानलोऽनिस्तेनोद्दीपितम् । एवम्-समाधिसमये । भिन्नरसं विरुद्धबहुरसव्यञ्जकमिति भावः । शम्भोः शङ्करस्य । नेत्रत्रयम्। वो युष्मान् । पातु रक्षतात् । शार्दूलविक्रीडितं वृत्तं, तल्लक्षणं चोक्तं प्राक् ॥५९॥" समावेशसङ्गति लक्षयति-इत्यत्रेत्यादिना। स्पष्टम् । इदम्बोध्यम्-शारिणोऽपि न समाधिभङ्ग इतिगृङ्गारस्य परम्परया, क्रोधस्य समाधिविघ्ननिवारकत्वेन तत्परिणामिनो रौद्रस्य साक्षादेव भगवद्रतेः परिपोषकत्वम् । इति । .. परम्परया केवलमङ्गत्वमाप्तयोः समावेशमुदाहरति-यथा वा-“सामुनेत्रोत्पलाभिः । त्रिपुरयुवतिभिस्त्रि पुरासुरस्य नायिकाभिः । हस्तावलग्नो हस्तस्पर्श कुर्वन् । क्षिप्तस्तिरस्कृतः । प्रसभं बलात् । अंशुकान्तं वस्त्रप्रान्तम् । आददानो गृह्णन् । अभिहतस्ताडितः । केशेषु । गृहन् । अपास्तो दूरीकृतः । चरणनिपतितश्चरणयोनिपतितः सन् । सम्भ्रमेण भयेनादरेण च । नेक्षितः।तथा-आलिडन । यः। आर्द्रापराधस्तत्कालकृतापराध इति भावः । कामीव । अवधूतो निराकृतः । सः। शाम्भवः शम्भोरयमिति तथोक्तः। शराग्निर्वाणरूपोऽग्निः । वो युष्माकम् । दुरितं पापम् । दहतु । अमरुशतकस्येदं पद्यम् । स्रग्धरा वृत्तम् ॥ ६० ॥" अत्र करुणशृङ्गारयोविरोधपरिहारं दर्शयति-त्यवेत्यादिना । स्पष्टोऽर्थः । इदम्बोध्यम्-यद्यपि शृङ्गारापेक्षया करु. णोऽङ्गी, तथाऽपि तस्य पर्यवसाने प्रकर्षाभाव इति तस्याङ्गत्वमेव, शृङ्गारश्च स्वयं 'कामीवे'तिसाम्यबलादायात इति सोऽपि भगवद्विषयाया रतेरङ्गम् । अत एतस्यास्ताभ्यां परिपोषः । इति । तदेव विशदयति-एवम् । च । अविश्रान्तिधामतयान विश्रान्तिः परिपुष्टतया स्फुरणं तस्या धामाश्रयः तस्य भावस्तया । करुणस्य । अपि (शृङ्गारस्य तु 'साम्यवलादागन्तुकत्वादस्त्येवेति सूचयितुमिदम् ) । अङ्गताऽप्रधानता । एव । इति । द्वयोः । अपि। करुणशृङ्गाग्योः। भगवदुत्साहपरिपुष्टतद्विषयरतिभावास्वादप्रकर्षकतया भगवतः शङ्करस्योत्साहस्त्रिपुरध्वंसं प्रति चित्तोत्कर्षस्तेन परिपुटाऽसौ तद्विषया शङ्करविषया रतिः सैव भावः तस्यास्वादस्तस्य प्रकर्षकौ तयोर्भावस्तत्ता तया । यौगपद्यसद्भावादेककाले सम्भवात् । अङ्गत्वेन । 'स्थितयो' रिति शेषः । न । विरोधः। . एतन्मतं विविच्य विशदयितुमाह-ननु । समूहालम्वनात्मकपूर्णघनानन्दरूपस्य समूहो विभावानुभावव्यभिचारिस्थायिभावानां समष्टिरेवालम्बनमुपजीवनं यस्य तादृश आत्मा यस्य तादृशोऽसौ पूर्णो घन आनन्दो रूपं यस्य तस्य तादृशस्य। रसस्य । तादृशेन समूहालम्वनात्मकपूर्णघनानन्दरूपेण । इतररसेन रसान्तरेण । कथम् । विरोधः ।

Loading...

Page Navigation
1 ... 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910