Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi

View full book text
Previous | Next

Page 889
________________ परिच्छेदः ] रुचिराख्यया व्याख्यया समेतः । • अत्र किंमुखस्य चन्द्रतयाऽध्यघसानादतिशयोक्तिः ? उत इदमिति मुखं निर्दिश्य चन्द्रत्वारोपाद्रूपकम् ? अथवा इदमिति मुखस्य चन्द्रमण्डलस्य च द्वयोरपि प्रकृतयोरेकधर्माभिसम्बन्धातुल्ययोगिता? आहोस्वित् चन्द्रस्याप्रकृतत्वाद्दीपकम् ? किंवा विशेषणसाम्यादप्रस्तुतस्य मुखस्य गम्यत्वात् समासोक्तिः ? यद्धा अप्रस्तुतचन्द्रवर्णनया प्रस्तुतस्य मुखस्यावगतिरित्यप्रस्तुतप्रशंसा ? यदा मन्मथोद्दीपनः कालः स्वकार्यभूतचन्द्रवर्णनमुखेन वर्णित इति पर्यायोक्तिः ? इति बहूनामलङ्काराणां सन्देहात् सन्देहसङ्करः। यथा वा--'मुखचन्द्रं पश्यामी' त्यत्र किं मुखं चन्द्र इवेत्युपमा ? उत चन्द्र एवेति रूपकम् ? इति सन्देहः । साधकबाधकयोद्धयोरेकतरस्य सद्भावे पुनर्न सन्देहः। यथा-'मुखचन्द्रं चुम्बति' इत्यत्र चुम्बनं मुखस्यानुकूलमित्युपमायाः साधकम् , चन्द्रस्य तु प्रतिकूलमिति रूपकस्य बाधकम् । 'मुखचन्द्रः प्रकाशते' इत्यत्र तु प्रकाशाख्यो धर्मो रूपकस्य साधको मुखे उपचरितत्वेन सम्भवतीति नोपमाबाधकः। - उदाहृतमथै निर्दिशति-अत्रेत्यादिना । स्पष्टोऽर्थः । इदं तत्त्वम्-इदंपदार्थस्य मुखरूपत्वेऽपि चन्द्रतयाऽध्यवसानादतिशयोक्तिः 'भेदेऽप्यभेद'इत्युक्तलक्षणा निर्बाधा, इदंपदवाच्यं मुखमुद्दिश्य चन्द्ररूपेण रूपणापकं 'रूपकं रूपितारोपाद्विषये निरपह्नवे।' इत्युक्तलक्षणं च निर्बाधम् । इदम्पदवाच्यम्मुखमैन्दवमण्डलपदवाच्यं चन्द्रबिम्बं च यदि प्रकृते, तयोश्च सन्तततमोभेदनादिरूपस्य धर्मस्य समानतया निर्देशात्तुल्ययोगिता 'पदार्थाना प्रस्तुतानामन्येषां वा यदा भवेत् । एकधर्माभिसम्बन्धः स्यात्तदा तुल्ययोगिता॥'इत्युक्ता च निर्बाधा । इदम्पदवाच्यस्य मुखस्य प्रकृतत्वमैन्दवमण्डलवाच्यस्य च चेचन्द्रस्याप्रकृतत्वम्, इत्येवं स्थितौ तयोरेकधभत्वेन दीपकम् 'अप्रस्तुतप्रस्तुतयोर्दीपक तु निगद्यते । इत्युक्त निर्वाध च । इदम्पदवाच्यं यदीन्दुमण्डलं प्रकृतं, विशेषणसाम्याद् वदनव्यवहारो वा यदि तत्रावगम्यते तत्समासोक्तिः 'समासोक्तिः समैयंत्र कार्यलिङ्गविशेषणैः । व्यवहारसमारोपः प्रस्तुतेऽन्यस्य वस्तुनः ॥' इत्युक्ता निर्बाधा च । यदि मुखवर्णनं प्रस्तुतं चन्द्रस्याप्रस्तुतस्य पुनर्वर्णनं प्रतिपादितं तदप्रस्तुतप्रशंसा अप्रस्तुताप्रस्तुतं चेद्गम्यते'इत्युक्ता समात् (चन्द्रात् ) सम (मुख) रूपा निर्बाधा । इद' मित्यादिना वा सम्प्रति सुरतावसर इति बोधित चेत् पर्यायोक्तिः 'पर्यायोक्तं यदा भङ्गथा गम्यमेवाभिधीयते ।'इति स्फुटं सम्पद्यते । इति इत्येवम् । बहूनामतिशयोक्त्यादीनाम् । अलङ्काराणाम् । 'साधकबाधकामावेने'ति शेषः । सन्देहात् । सन्देहसङ्करः सन्देहेन युक्तः सङ्करः। - उदाहरणान्तरं निर्दिशति--यथा-बेत्यादिना । स्पष्टम् । इदं तत्त्वम् 'उपमितं व्याघ्रादिभिः सामान्याप्रयोगे।' २१११५६ इत्यनेन 'मुखं चन्द्र इवे'ति समासाश्रयणे उपमा निर्बाधा, 'मुखमेव चन्द्र'इति समासस्य 'मयूरव्यसकादयश्च ।' २।१।७२ इत्यनेनाश्रयणे रूपकं च । उभयत्रापत्त्यभावात्समासस्योभयथोपपत्तिः। इति । ननु साधकबाधकयोरेकतर. सत्त्वेऽप्यस्याङ्गीकारः स्यादित्याशङ्कयाह-साधकेत्यादि । द्वयोः । साधकबाधकयोः । निर्धारणार्थेय षष्ठी सप्तमी वा । एकतरस्य साधकस्य बाधकस्यैव वेत्यर्थः । पुनः। सद्भावे। सन्देहः । न । अतस्तवास्य विषय इति भावः । उदाहरति- यथा। 'मुखचन्द्रं चुम्बति' इत्यत्र समासस्योपमारूपकोभयघटकत्वेऽपि । चम्बनं मुखसंयोगानुकूलव्यापारः । मुखस्य । अनुकूलम् । इति । उपमायाः। साधकम् । चन्द्रस्य । तु । प्रतिकूलम् । इति । रूपकस्य । बाधकम् । अतोऽत्र नालङ्कारद्वयं, न वा तस्य सङ्कर इति भावः । 'मुखचन्द्रः प्रकाशते।' इत्यत्र । तु (इदं पूर्वतो वैलक्ष्यण्यद्योतकम् )। प्रकाशाख्यः। धर्मः । रूपकस्य । साधक मुखे। उपचरितत्वेनोपचारेण गोण्या लक्षणयेति यावत् । सम्भवति । इति । उपमाबाधकः। 'अपी'ति शेषः । न । 'अतोऽत्रोपमारूपकयोः सन्देहसकर एवेति केचित, 'संसृष्टिरित्यपरे प्राहः ।

Loading...

Page Navigation
1 ... 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910