Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi
View full book text ________________
परिच्छेदः
रुचिराख्यया ध्याख्यया समेतः।
चरणरजांसि शिरोभिवोढुं भूमृद्वरा अनेकशो यत्र। . तदुदयसिंहनराधिपशासितमुद्भाति पाटन नगरम् ॥१॥ भुवनभावुकभावितभावनं भयभयावहनाममनोहरम् । शिवमहं शिवदत्तकविर्मुहुर्विनतवान्नतवाञ्छितपूरकम् ॥ भारद्वाजान्वयजनिरभूखण्डुरामः पवित्रखान्ताराध्यः परमपुरुषाराधनव्यापृतात्मा। तस्यात्मोद्भर्महितचरितः श्रीमतां धीमतां च नित्यं मान्यो जगति बलदेवेत्युपाः प्रभूतः ॥ २॥ तत्सूनुर्निगमागमज्ञमहितः शान्तो वदान्यः प्रियः सिद्धः श्रीशिवनाथसूरिरुदभूद्विष्वक् प्रसिद्धो गुणैः । तस्यात्मप्रभवः प्रभूतधिषणो निर्मत्सराराधकः पृथ्व्यां श्रीशिवदत्तइत्यधिगताभिख्योऽहमेष स्थितः ॥३॥
एनेन साहित्यमहासमुद्रमुन्मथ्य रत्नानि ततो गृहीत्वा ।
व्याख्येयमाविष्क्रियते स्म तेषां निधानभूता रुचिरा प्रयत्नात् ॥ ४ ॥ साहित्यदर्पणस्येयं रुचिरा प्रथिता गुणैः । रचिता शिवदत्तेन विश्वनाथस्य तुष्टये ॥५॥ लोचनाचलनन्देन्दुमिते विक्रमवत्सरे । भाद्रमासेऽसिते पक्षे दशम्यां रविवासरे ॥६॥ पूरिता कविरत्नेन व्याख्येयं रुचिराऽभिधा। चिराय रुचिरा भूयात् स्वगुणैर्विमलात्मनाम् ॥७॥ यदिहोद्भावितं नूनं प्राचीनं वा मतं मया । तत्सर्वे सुविचायेव न मनागवहेलया ॥८॥
अथापि स्खलितं क्वापि कथञ्चिदपि यन्मनाक् । संशोधयन्तु तत्सर्वं करुणावरुणालयाः ॥ ९॥ इह यद्यपि भूयांसः सुलभा दोषाः समन्ततः सन्ति । न तथाऽपि सर्वथाऽऽस्ते विगुण किमपीति हन्त तुष्यामि१० अथवा रत्ननिधावपि न तथा सुलभानि सन्ति रत्नानि । प्रस्तरशङ्खवराटकशकलानि यथा पदेपदे हन्त ॥ ११॥
इति श्रीमद्भारद्वाजवंशावतंसानां सहृदयशिरोमणीनां सुगृहीतनाना श्रीशिवनाथसूरीणां तनूभुवा स्वपितामहज्येष्ठसहोदर ज्येष्ठात्मजानां समस्तशास्त्रनिष्णातानां प्रथितमहिनां श्रीदेवीसहायचरणानामाराधनया गृहीतशास्त्रेण श्रीरम्भादेवीगर्भभुवा काव्यप्रकाशध्वन्यालोकादिव्याख्यात्रा भगवत्सुधाशत
कार्याशतकसंस्कारसर्वस्वादिनिर्मात्रा श्रीशिवदत्तकविरत्नेन विरचितायां - साहित्यदर्पणब्याख्यायां रुचिरायां दशमः परिच्छेदः ।
समाप्ता चेयं व्याख्या।
इति शम्।
१ भूभृद्वराः शैलेन्द्राराजनिष्ठाः।
Loading... Page Navigation 1 ... 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910