Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi

View full book text
Previous | Next

Page 891
________________ परिच्छेदः ] रुचिराख्यया व्याख्यया समेतः। ३१३ अत्र 'कटाक्षेणापीषत्क्षणमपी'त्यत्रच्छेकानुप्राखस्य निरीक्षेते'त्यत्र क्षकारमादाय वृत्त्यनुप्रासस्य चैकाश्रयेऽनुप्रवेशः । एवं चात्रैवानुप्रासार्थापत्त्यलङ्कारयोः। यथा वा--'संसारध्वान्तविध्वंसहंस'इत्यत्र रूपकानुप्रासयोः। यथा वा--'कुरबका रवकार णतां ययुः' इत्यत्र रवकारवका' इत्येकं 'बकारवकार' इत्येकमिति यमकयोः। 'उपसर्गस्य घञ्यमनुष्ये बहुलम् ।' ६ । ३ । १२२ इति दीर्घः । कः । इव । भविता । तत्र कियान् प्रमोदो भावीति न वेत्तुं शक्यत इति भावः । मनसा कामपि भावयतः कस्याप्युक्तिरियम् । शार्दूलविक्रीडितं वृत्तं, तल्लक्षणं चोक्तं प्राक् ॥ ३११॥' उदाहृतमथै निगमयति-अवेत्यादिना । स्पष्टोऽर्थः । अयम्भाव:-'छेको व्यञ्जनसङ्घस्य सकृत्साम्यमनेकधा ।' इत्युक्तः छेकानुप्रासः 'अनेकस्यैकधा-साम्य'-मित्यायुक्तो वृत्त्यनुप्रासश्च क्षकारमादायोत्तम्भितशरीरौ । अनयोश्चैकस्मिन् पादरूपे आश्रये प्रवेशः । विवृतं चैतत्तवागीशैः 'कटाक्षेणापीषत्क्षणमपी' त्यत्र वर्ण (क्-ए )-द्वयघटितस्य क्षकारस्य क्रमस्वरूपाभ्यां सकृत्साम्याच्छेकानुप्रासः, पश्चात्-'निरीक्षेते ति क्षकारमादाय क्रमखरूपाभ्यामसकृत्साम्यसम्भवाद् वृत्त्यनुप्रासः । एवं चतुर्थपादेऽपि मकारभकारघटितवर्णपिण्डस्य च्छेकवृत्त्यनुप्रासौ वेदितव्यौ ।' इति । अयं च सङ्कर एवपादाश्रयः, एकपद्याश्रयस्तु-अनुप्रासार्थापत्त्यलङ्कारयोः, तथा हि-अनुप्रासदछेकवृत्त्यात्मा दर्शित एव, अथ-'दण्डापूपिकयाऽ. न्यार्थागमोऽर्थापत्तिारष्यते' इत्युक्तोऽर्थापत्त्यलङ्कारः ‘क इवे' त्यत्रार्पितः । इति । इदं बोध्यम्-एकाश्रयत्वे तिलतण्डुलन्यायस्य चरितार्थत्वेन संसृष्टिखीकारौचित्येऽपि प्राचामादेशेन सङ्करस्वीकारः। यद्यपि-एकपदाश्रययोः सजातिकयोरलङ्कारयोर्मिश्रणं नीरक्षीरन्यायानुगतमिति तत्र सङ्करः, अन्यथा संमृष्टिः । यथोदाहरिष्यमाणे 'अहिण' इत्यत्रोपमारूपकयोरेकपदाश्रितत्वात्सजातीयत्वान्मिश्रणं सङ्कर इति ज्यायः । एवमुदाहृतेऽनुप्रासयोः सजातीयत्वेऽपि एकपदाश्रितत्वाभावेन मिश्रणं संसृष्टिः, अनुप्रासार्थापत्त्योस्तु विजातीयत्वेनैकपदाश्रितत्वाभावेन च मिश्रण संसृष्टिः स्फुटेति विभागः कर्तुं शक्यते । अत एव-विषयस्फुटीकरणायानकधोदाहृत्यान्ते 'अहिण' इत्येवोदाहृतमिति च वक्तुं शक्यं तथाऽपि 'कटाक्षेणापीषत्क्षण' मित्यत्र च्छेकवृत्त्योरेकपदाश्रयत्वाभावेऽपि एकपादाश्रयत्वेन नीरक्षीरन्यायस्य सुचरितत्वेन च सङ्कर इति सहृदयाः । एवमनेकपदाश्रयत्वेऽपि एकपादाश्रयत्वेन सङ्करोपपत्तौ एकाश्रयत्वे क्वचित्सङ्करः क्वचित् संसृष्टिरिति कल्पनमयुक्तम् , विषयान्वेषणक्लिष्टत्वापत्तेः । अत एव-शाब्दार्थयोरेकपदगतत्वेन एकाश्रयानुप्रविष्टत्वेऽपि नीरक्षीरन्यायस्य सुचरितत्वाभावेन मिश्रणस्य संसृष्टिरूपत्वम्, अथाऽपि तत्रैष एव सङ्करः प्रकाशकारादिभिरुदाहृत्याङ्गीकृतः । इति। शब्दार्थावलकाराबुदाहरति-यथा वेत्यादिना । स्पष्टम् । इदं तत्त्वम्-अत्र हि कंसनिषूदनस्य हंसत्वेन रूपणाद्रूपकम् , धकारोत्तरवकारघटितवर्णसाम्येन चानुप्रासः । एवमनुप्रासस्य शाब्दत्वं रूपकस्य चार्थत्वम् । इति। पुनरुदाहरति-यथा वा-'कुरबका रक्तवर्णा अम्लानाः । 'तत्र शोणे कुरयक'इत्यमरः। रवकारणतां ध्वनिपरत्वनिमित्तत' मत्यर्थः । 'मधुलिहा'मिति पूर्वतोऽनुषज्यते। ययुः। अस्य पूर्वपादत्रयं 'विरचिता मधुनोपवनश्रियामभिनवा इव पत्रविशेषकाः । मधुलिहां मधुदानविशारदाः' इति । रघुवंशस्येदं पद्यम् । द्रुतविलम्बितं वृत्तं, तल्लक्षणं चोक्तं प्राक् ॥' उदाहरणीयं सूचयति-इत्यत्रेत्यादिना । स्पष्टम् ।

Loading...

Page Navigation
1 ... 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910