Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi
View full book text ________________
[ दशमः
३१४
. साहित्यदर्पणः। यथा वा--'अहिणअपओदरसिअसु पहिअस्सामाइएसु दिअसेसु ।
मोहइ पसारिअगिआणं णिचिों मोरविंदाणं ॥ ३१२॥' : अत्र पहिअस्लामाइएसु'इत्येकाश्रये पथिकश्यामायितेवित्युपमा । पथिकसामाजिकैग्विति रूपकं प्रविष्टम् ।
श्रीचन्द्रशेखरमहाकविचन्द्रसुनुश्रीविश्वनाथकविराजकृतं प्रबन्धम् । साहित्यदर्पणममुं सुधियो विलोक्य साहित्यतत्त्वमखिलं सुखमेव वित्त ॥ यावत्प्रसन्नेन्दुनिभानना श्री रायणस्याङ्गमलङ्करोति । तावन्मनः सम्मदयन् कवीनामेष प्रबन्धः प्रथितोऽस्तु लोके ॥
इति श्रीमन्नारायणचरणारविन्दमधुव्रतसाहित्यार्णवकर्णधारध्वनिप्रस्थापनपरमाचार्यकविसूक्तिरत्नाकराष्टादशभाषावारविलासिनीभुजङ्गसान्धिविग्रहिकमहापात्रश्रीविश्वनाथकविराजकृती साहित्यदर्पणेऽलङ्कारस्वरूपनिरूपणं नाम दशमः परिच्छेदः ।
- समाप्तश्चायं साहित्यदर्पणः ।
एकपदगतत्वेनैकाश्रयमुदाहरति-यथा वेति । 'अहिण' इत्यादि । 'अहिणअपओदरसिअसु अभिनवपयो. दरसितेषु अभिनवा ये पयोदा जलदास्तै रसिता ध्वनिशालितां नीतास्तेषु इति यावत् । अभिनवत्वेन पयोदानां तर्पणक्षमत्वतदुन्मुखत्वे सूचिते । पहिअस्सामाइएसु पथिकश्यामायितेषु पथिका विरहिणः श्यामायिता मलिन इवाचरितवन्तो येषु तेषु।यद्वा-'पथिकसामाजिकेषु'इत्यर्थः पथिका एव सामाजिका उत्सव(नृत्य)दर्शका येषु तथाभूतेष्विति भावः । आहितान्यादित्वात्परनिपातः । दिअसेसु दिवसेषु । पप्तारिअगिआणं प्रसारितग्रीवाणाम् । मोरविन्दाणं मयूरवृन्दानाम् । णिचिअं नृत्यम् । मोहइ मोहयति । गाथासप्तशत्याः पद्यमिदं, गाथाछन्दः, तल्लक्षण चोक्तं प्राक् ॥ ३१६ ॥
उदाहृतमर्थ निर्दिशति-अत्रेत्यादिना । स्पष्टम् ।
विदुषः सम्बोध्यास्य फलानुभवाय प्रार्थयते-'हे सुधियो विद्वांसः सदसद्विवेचनपूर्वक सारमात्रग्रहणपटव इति यावत् । श्रीचन्द्रशेखर...श्रीचन्द्रशेखर एव महाकविचन्द्रो महाकविषु (तारागणेष्विव) चन्द्रभूतस्तस्य सूनुः पुत्रः, सोऽसौ विश्वनाथकविराजस्तेन कृतस्तम् । अमुम् । साहित्यदर्पणम् । प्रबन्धम् । विलोक्य । अखिलमङ्गोपाङ्गसहितम् । साहित्यतत्त्वं साहित्यस्यालङ्कार (प्रधान)-शास्त्रस्य तत्त्वं तत् । सुखमनायासम् । एव । वित्त यूयं जानीत । एतद्विलोकनानन्तरं रसमञ्जर्यादेरप्यपेक्षा न भविष्यतीति भावः । वसन्ततिलकं वृत्तं, तल्लक्षणं चोक्तं प्राक् ॥
परमात्मानं स्मरन् प्रन्याभ्युदयाय प्रार्थयते-यावदित्यादिना । - यावत् । प्रसन्नेन्दुनिभानना प्रसन्न आवरणशून्यो य इन्दुस्तन्निभमाननं मुखं यस्यास्तथोक्ता । श्रीलक्ष्मीः। नारायणस्य परमात्मनः । अङ्गं वक्षःस्थलम् । अलङ्करोति । तावत् । एष साहित्यदर्पणनामा। प्रबन्धः। लोके जगति । कवीनां विदुषाम् । मनः । सम्मदयन् प्रमोदं नयन् । प्रथितः । अस्तु । इन्द्रवज्राछन्दः, तल्लक्षणं चोक्तं प्राक् ॥
प्रकरण-प्रबन्धयोः समाप्ति निर्दिशति-इतीत्यादिना । पूर्ववदूत्यम् ।
१ “ अभिनवपयोदरसितेषु पथिक'यामायितेषु दिवसेषु । मोहयति प्रसारितप्रीवाणां नृत्यं मयूरवृन्दानाम् ॥" इति संस्कृतम् ।
Loading... Page Navigation 1 ... 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910