Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi
View full book text ________________
परिच्छेदः ]
रुचिराख्यया न्याम्पमा समेतः। • 'देवः पायादपायानः स्मेरेन्दीवरलोचनः । संसारध्वान्तविध्वंसहसः कंसनिपूदनः ॥ ३०५॥'
अब 'पायादपाया'दिति यमकम् , 'संसारध्वान्तविध्वंसहंस'इत्यादौ चानुप्रासः इति शब्दा. लङ्कारयोः संसृष्टिः । द्वितीयपादे उपमाद्वितीयाधं च रूपकम् इत्यालङ्कारयोः संसृष्टिः । उभयोः स्थितत्वाच्छब्दार्थालङ्कारसंसृष्टिः।
१९१ अङ्गाङ्गित्वेऽलङ्कृतीनां तद्वदेकाश्रयस्थितौ ।
सन्दिग्धत्वे च भवति सङ्करस्त्रिविधः पुनः ॥ १५२॥ अङ्गाङ्गिभाषो यथा
'भाकृष्टिवेगविगलद्भुजगेन्द्रभोगनिर्मोकपट्टपरिवेष्टनयाऽम्बुराशेः। . मन्थव्यथाप्युपशमार्थमिवाशु यस्य मन्दाकिनी चिरमवेष्टत पादमूले ॥ ३०६ ॥'
उदाहरति-यथा-संसारध्वान्तविध्वंखहंसः संसारश्वराचरात्मकं जगदेव ध्वान्तमविद्याविजृम्भितत्वादन्धकारस्तस्य विध्वंसस्तत्र हंसः सर्यः । 'भानसः सहस्रांश रित्यमरः । मेरेन्टीवरलोचनः स्मेरे प्रफुल्ले इन्दीवरे नीलकमले तल्लोचने यस्य तथोक्तः । कंसनिषूदनः कंसारिः । देवः । अपायात् क्लेशात् । नोऽस्मान् । पायादक्षत् ॥ ३०५॥'
अत्र शब्दार्थालङ्काराणां स्थित्यंशनिर्देशपूर्वकं मिश्रण निर्दिशति-अत्रेत्यादिना । स्पष्टम् ।
यथा वा-'आनन्दमन्थरपुरन्दरमुक्तमाल्यं मौलौ हठेन निहितं महिषासुरस्य । पादाम्बुजं भवतु मे विजयाय मजु-मञ्जीरसिञ्जितमनोहरमम्बिकायाः ॥' इति, अत्र हि-अनुप्रासोपमयोः संसृष्टिः । गद्ये पुनरियं कादम्बर्यादौ यथातथं स्वयं द्रष्टव्या।
सङ्करमुपपाद्य लक्षयति-१९१ अलङ्कृतीनामुक्तालङ्काराणाम् । अङ्गाङ्गित्वे गौणप्रधानत्वे । तद्वत् तथा । एकाश्रयस्थितावेकः पादरूपः पदरूपः पद्यरूपो वाऽऽश्रय आधारस्तत्र स्थितिस्तस्याम् । सन्दिग्धत्वे साधकबाधकाभावेन स्थितत्वे । च ।सङ्करः। पुनः। त्रिविधः। भवति । अयम्भावः-सङ्करत्रिविधः, अङ्गाशिव-काश्रयत्व-सन्दिग्धत्वभेदात् । तत्र-अङ्गाङ्गित्वं नाम वातन्त्र्यमप्राप्ततयोपकार्योपकारकत्वं गतत्वम् । तथाऽऽहुः 'अविश्रान्तिजुषामात्मव्यङ्गाङ्गित्वं तु सङ्करः।' इति । एकाश्रयत्वं नाम एकत्र पदे पादे वाक्ये वा व्यवस्थितत्वम् । सन्दिग्धत्वं च द्वयोर्बहुनां वा साधकबाधकाभावेनैकत्राविरुद्धसमाविष्टत्वम् । इदं बोध्यम्-अयं प्रायः-नीरक्षीरन्यायेनास्फुटपार्थक्येनालङ्कारमिश्रणमूलः, अत एवास्य शाब्दयोरार्थयोरेव वा एकत्र समावेशे सम्भवति । शाब्दार्थमिश्रणमूलत्वे नीरक्षीरसादृश्यानुपपत्तेः । प्रायःपदेन-एकाश्रयत्वे शाब्दार्थमिश्रणमूलत्वेऽपि न क्षतिारति सूचितम् ॥ १५२ ॥ ____ अङ्गामित्वप्रभेदं सङ्करमुदाहर्तुमाह-अङ्गाङ्गीत्यादि । स्पष्टम् । 'आकृष्टीत्यादि। . . 'मन्दाकिनी आकाशगङ्गा लक्षणया गजेत्यर्थः । 'मन्दाकिनी वियद्गझे' त्यमरः । यस्य यत्पदवाच्यस्य, यद्वा-ई लक्ष्मीः पत्नीत्वेनास्यास्तीति तस्य,लक्ष्मीपतरित्यर्थः । अम्बुराशेः समुद्रस्य, यद्वा-लक्षणया तदभिन्नस्येत्यर्थः । श्यामिना सेव्यत्वेन चेयं लक्षणा(अस्मिन्पक्षे यस्येति विशेष्यम् ) । आशु । मन्थव्यथाव्युपशमार्थं मन्यस्य मन्थनस्य, यद्वा मन्थे मन्थने या व्यथा तस्या व्युपशमो विशेषेणोपशमनं तदर्थम् । इव । पादमूले एकदेशे,यद्वाचरणसमीपभागौ। 'पादा रश्म्यघ्रितुर्याशा'इत्यमरः । आकृष्टि...आकृष्टेराकर्षणस्य वेगोऽत्यन्तत्वरया विधानं तेन विश्वलन् दूरीभवन् भुजगेन्द्रस्य वासुकेर्भोग(स्य)निर्मोकः (कञ्चुकः) एव पट्टो बन्धनवस्त्रं यद्वा-....निर्मोक: पट्ट इवेति, स एव परिवेष्टना परितः प्रवहणं प्रत्यवरोध्यावस्थानं वा तया 'तच्छलेनेति विवृतिकाराः । चिरं चिरकालं व्याप्य । अवेष्टत पर्यवहत् प्रत्यवरोध्य वाऽतिष्टत् । वसन्ततिलकं वृत्तम् , तल्लक्षणं चोक्तं प्राक् ॥ ३०६ ॥'
Loading... Page Navigation 1 ... 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910