Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi
View full book text ________________
३०८
साहित्यदर्पणः ।
([ दशम:
दुक्तम्, 'रसादीनामङ्गित्वे रसवदाद्यलङ्काराः, अङ्गत्वे तु द्वितीयोदात्तालङ्कारः' इति, तदपि परास्तम् ।
१८९ यद्येत एवालङ्काराः परस्परविमिश्रिताः ॥ १५० ॥ तदा पृथगलङ्कारौ संसृष्टिः सङ्करस्तथा ।
यथा लौकिकानामलङ्काराणां परस्परमिश्रणे पृथकूचारुत्वेन पृथगलङ्कारत्वम्, तथोक्तरूपाणां काव्यालङ्काराणामपि संसृष्टिसङ्कराख्यौ पृथगलङ्कारौ । तत्र
१९० मिथोऽनपेक्षयैतेषां स्थितिः संसृष्टिरुच्यते ॥ १५१ ॥
एतेषां शब्दार्थालङ्काराणाम् । यथा
रूपालङ्कारमुखेन'इत्यादिना दर्शितं स्मारयति ) । कैश्चित् । उक्तम । 'रसादीनाम् । अङ्गित्वे प्रधानत्वे । रसवदाद्यलङ्काराः । अङ्गत्वेऽप्रधानत्वे । तु । द्वितीयोदात्तालङ्कारः ।' इति । तत् । अपि ( इदं केषाञ्चिदन्येषा - मपरेषां च मतस्य ग्राहकम् ) । परास्तम् । इदमुक्तम्- ध्वनिकारोक्तदिशाऽभियुक्तानां सिद्धान्तेन चाङ्गभूतानां सादीनां प्रधानरसाद्युपकारकत्वमादाय रसवदाद्यलङ्कारत्वं नतु प्रधानभूतानां रसादीनामिति 'रसादीनामङ्गित्वे रसवदाद्यलङ्कारा' इति पराहतम् । अथ - अङ्गत्वे द्वितीयोदात्तालङ्कारस्वीकारोऽप्येतेनैव पराहतः, अङ्गत्वे रसवदाद्यलङ्कारत्वस्य तैः स्वीकृतत्वात् । इति ।
एवं शुद्धा अलङ्कारा दर्शिताः, अथैषां मेलनेऽलङ्कारान्तरद्वयमुपपादयति - १४९ यदि । एते दर्शिताः शुद्धाः पुनरुक्तवदाभासादय उपमाऽऽदयश्चेत्यर्थः । एव । अलङ्काराः । परस्परविमिश्रिता अन्योऽन्यं मेलनं भवन्ति । तदा । सृष्टिः । तथा । खङ्करः । इति पृथगन्यौ । अलङ्कारौ । ' ज्ञेया' विति शेषः ॥ १५० ॥
तदेव स्पष्टम्बोधयितुं विवृणोति - यथा । लौकिकानाम् । अपि किम्पुनर लौकिकाना' मिति शेषः । अलङ्काराणाम् । परस्परमिश्रणे । पृथक्चारुत्वेन विलक्षणचमत्कारत्वेन । 'अमिश्रितालङ्कारापेक्षया इति शेषः । पृथगलङ्कारत्वम् । तथा । उक्तरूपाणामभिहितलक्षणानाम् । काव्यालङ्काराणाम् । परस्परमिश्रणे । संसृष्टिसङ्कराख्यौ । पृथक् । अलङ्कारौ । अयम्भावः - यथा - एकत्राङ्गे ( कण्ठादौ ) अनेकेऽलङ्कारा अपृथक्तयोपनीताः पृथग्भूतामेव कामपि शोभामुपपादयन्ते, यथा वा केनापि शिल्पिपटुनाऽनेकालङ्कारकार्यकारित्वमुपपादयितुं तत्तत्सरूप एक एवालङ्कारस्तथोपपाद्यते स यथा कामपि शोभां सम्पादयन् तत्तदेकतरत्वं न जहाति; तथा - क्वचिदलौकिका अपि अलङ्कारास्तिलतण्डुलन्यायेन क्वचिनीरक्षीरन्या
मिश्रिताः कामपि पृथग्भूतां शोभां जनयन्तीति तेषां मेलनं संसृष्टिसङ्करव्यपदेश्यम् । अत्रैवानुक्तानां परैरुक्तानामन्येषामलङ्काराणामन्तर्भावस्तस्यतस्य मिश्रितालङ्कारत्वाविरहात् । अत एव - ' अत्युक्तिरद्भुतातथ्यशौयौदार्यादिवर्णनम्' इत्युक्तो ऽत्युक्त्यलङ्कारोऽतिशयोक्त्युदात्तयोः, 'प्रासिद्धत्वगुणोत्कर्षोऽनुगुणः परसन्निधेः । इत्युक्तोऽनुगुण उदात्ततद्गुणयो:, 'असम्भवोऽर्थनिष्पत्तेर सम्भाव्यत्ववर्णनम् । इत्युक्तोऽसम्भवो व्याजोक्तिविरोधोदात्तानाम्, 'यस्मिन् विशेषसामान्यविशेषाः विकखरः ।' इत्युक्तो विकस्वरोऽर्थान्तरन्यासस्याद्ययोर्भेदयोर्मेलनम् । एवमसमोदाहरणातुल्ययोगित्वादीनामपि अनेकालङ्कारान्तरवैचित्र्यमूलत्वं याथातथ्येन बोध्यम् । इति दिकू ।
एवं संसृष्टिसङ्करयोः सामान्यं लक्षणं दर्शयित्वा विशेषं दर्शयति-तत्र - १९० एतेषां निरुतालङ्काराणाम् । मिथः । अनपेक्षयोपकायोंपकारकत्वोपेक्षया । स्थितिः । 'तिलतण्डुलन्यायेने 'ति शेषः । संसृष्टिः । उच्यते । अयम्भावःयथा तिलतण्डुल मिश्रणं परस्परमनुपकार्यानुपकारकत्वेन स्थितं तथा यत्र पद्ये गये वा शाब्दयोः शाब्दार्थयोः शाब्दा र्थयोर्वा ऽलङ्कारयोः स्थितिः संसृष्टिपदाभिधेया । सा यथा - ' वदन सौरभलोभपरिभ्रमन्द्रमर ! सम्भ्रम सम्भृतशोभया । चलितया विदधे कलमेखलाकलकलो ऽलकलोलदृशाऽन्यया ॥' इति, अत्र वृत्त्यनुप्रासयमकयोः सद्भावात् । 'लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः । असत्पुरुषसेवेव दृष्टिर्निष्फलतां यता ॥' इति, अत्र ह्युपमोत्प्रेक्षयोः तृतीया तु स्वयमुदाहरिष्यते । इति ॥ १५१ ॥
कारिकां सुगमयितुं तत्कठिनांश सुगमयति- एतेषामित्यादिना । स्पष्टम् ।
Loading... Page Navigation 1 ... 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910