Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi

View full book text
Previous | Next

Page 888
________________ ३१० ... साहित्यदर्पणः। ... [ दशमः .... अत्र निर्मोकपट्टापतधनेन मन्दाकिन्या आरोप इत्यपङ्गतिः, सा च मन्दाकिन्या वस्तुवृत्तेन यत्पादमूलवेष्टनं तच्चरणमूलवेष्टनमिति श्लेषमुत्थापयतीति तस्याङ्गम् । तस्याश्च पादमूलवेष्टनमेव चरणमूलवेष्टनमित्यतिशयोक्तेरझम,अतिशयोक्तिश्च 'मन्थव्यथाव्युपशमार्थमिवे'त्युत्प्रेक्षाया अडम्, उत्प्रेक्षा चाम्बुराशिमन्दाकिन्यो यकनायिकाव्यवहारं गमयतीति समासोक्तरङ्गम् । यथा वा 'अनुरागवती सन्ध्या दिवसस्तत्पुरःसरः। अहो दैवगतिश्चित्रा तथाऽपि न समागमः॥३०७॥' अत्र समासोक्तिविशेषोक्तरङ्गम् । सन्देहसङ्करो यथा-- 'इदमाभाति रुचिरं भिन्दानं सन्ततं तमः। अमन्दनयनानन्दकरं मण्डलमैन्दवम् ॥ ३०८ ॥' स्वष्टनात्मतयार ते । इतिच्चरणमात यावत् सत्यलङ्कारः त्वात् इति अलङ्कारसाङ्कय निर्दिशति-अत्रोदाहृते पद्ये । निर्मोकपट्टापह्नवनेन निर्मोकपट्टस्य परिवेष्टनात्मतया प्रतिपादनेनेति शेषः । मन्दाकिन्याः । आरोपः 'अस्याः परिवेष्टन (पारितः प्रवहण) रूपत्वात्'इति शेषः । इति । अपहतिः 'प्रकृतं प्रतिषिध्यान्यस्थापनं स्यादपद्भुतिः। इति वक्ष्यमाणलक्षणोऽपहृत्यलङ्कारः । सापळुतिः।च । मन्दाकिन्याः । वस्तुवृत्तेन वस्तुनः खरूपस्य वृत्तमितिवृत्तं निर्वचनमिति यावत् तेन । यत्पादमूलवेष्टनं यस्याम्बुराशेः पादमूल ( एकदेश ) वेष्टनमिति तथोक्तम् । एव । तच्चरणमूलवेष्टनं तस्य श्रीपतैः चरणमूलवेष्टनम् । इति । श्लेषम् । उत्थापयत्यर्थशक्त्या निरूपयति । इति । तस्य श्लेषस्य । अझं परिपोषिका । तदेवोपपादयति-तस्या इत्यादि । अयम्भावः-पादमूलशब्दस्य एकदेशेतिचरणसन्निधानेति चार्थः । पादमूलशब्दस्य परिवृत्तावप्युक्तस्यार्थस्यापरिवृत्तिः, एवं परिवेष्टनशब्दस्यापि अर्थद्वयम् । प्रकरणस्य च गङ्गायाः समुद्रव्यथाव्युपशमपरत्वे . भगवद्व्यथाव्युपशमपरत्वे च समानतया श्लेषः, अस्योपकारिका निर्मोकपट्टमपहृत्य तत्र परिवेष्टनारोपेणोत्तम्भिताऽपहुतिः, अस्या असत्त्वे तत्परिपोषाभावात् । इति । अतिशयोक्तिः । समुद्रलक्ष्मीपत्योर्भेदेऽप्यभेदाध्यवसायरूपोऽतिशयोक्त्यलङ्कारः । च । 'मन्थव्यथाव्युपशमार्थमिवे'त्युत्प्रेक्षायाः ( इवशब्दवाच्यायाः) । अङ्गम् । अयम्भावः-इवशब्दप्रतिपाद्योत्प्रेक्षा, अम्बुराशिपदार्थस्य समुद्रात्मकत्वेऽपि यत्(लक्ष्मीपति ) पदार्थेन विशेष्येण विशेषणतामुपपादयितुं तयोरभेदाध्यवसायेऽतिशयोक्तिश्च, अनयोरतिशयोक्तिरूप्रेक्षायाः परिपोषिका, तां विनोत्तम्भिताया अप्यस्या अपरिपोषात् ( अचमत्कारकत्वात् ) । समुद्रस्य जडतया मन्थव्यथाया असम्भवात्, तत्र विष्णुसादृश्यमुद्भाव्यैव गङ्गाया मन्थव्यथाव्युपशमपरत्वोत्प्रेक्षणस्य यौचित्यम् । इति । उत्प्रेक्षा। च । अम्बुराशि (समुद्र-विष्णु) मन्दाकिन्योः । नायकनायिकाण्यवहारम् । गमयत्यवगमयति । इति समासोक्तेः । अङ्गं परिपोषिका । . उदाहरणान्तरेण विषयकाठिन्यं परिहर्तुमाह-यथा वा । स्पष्टम् । 'अन्वित्यादि । सन्ध्या (तदात्मना व्यवहृता नायिका)। अनुरागवती लौहित्यवती प्रेमवती चेत्यर्थः । दिवसः (तदात्मना व्यवहृतो नायकः ) । तत्पुरःसरस्तस्याः सन्ध्यायाः (तदात्मना व्यवहृताया नायिकायाः) पुरःसरः पुरोवती । अहो आश्चर्यम् । दैवगतिः प्रारब्धोदयः । चित्रा विलक्षणा । यत्-तथाऽपि तयोः पाश्चात्त्यपुरस्त्ययोः सन्ध्यादिवसयोः । समागमः परस्परं मेलनम् । न । 'सम्भवतीति शेषः ॥ ३०७॥ . उदाहृतमर्थ निर्दिशति-अत्र । समासोक्तिः 'सन्ध्यादिवसयोर्नायिकानायकव्यवहारमूलेति' शेषः । विशेषोक्तेः 'सति हेतौ फलाभावे विशेषोक्ति' रित्यक्तस्य सन्ध्यादिवसयोः पाश्चात्त्यपुरस्त्यरूपे हेतो सत्यपि समागमरूपस्य कार्यस्यानिष्पत्तिमूलस्य 'अहो'इत्यादिनोक्तनिमित्तस्यालङ्कारविशेषस्य । अङ्गम्। - क्रमवशेन प्रागुदाहाय॑स्यापि एकाश्रयानुप्रविष्टत्वस्य सन्देहसङ्करातिरिक्को विषय इति एकाश्रयानुप्रविष्टत्वमनुदाहृत्य सन्देहसङ्करमेवोदाहर्तुमाह-सन्देहसङ्करः । यथा-'सन्ततं सम्यग्व्याप्तं विपुलीभूतं वा । तमोऽन्धकारं स्मरजनितमज्ञानं वा (कर्म)। भिन्दानं निवर्तयन्तम् । अमन्दनयनानन्दकरममन्दं यथा स्यात्तथा नयनयोरानन्दस्तस्य करमुत्पादकम् । ऐन्दवमिन्दुसम्बन्धि । इदम् । रुचिरम् । मण्डलं बिम्बम् । आभाति ॥ ३०८ ॥

Loading...

Page Navigation
1 ... 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910