Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi

View full book text
Previous | Next

Page 792
________________ साहित्यदर्पणः । [ दशमःगुणक्रियास्वरूपत्वानिमित्तस्य पुनश्च ताः ॥ ९५ ॥ द्वात्रिंशद्विधतां यान्ति तत्र वाच्योत्प्रेक्षायामुदाहरणं दिडूमात्रं यथा'ऊरुः कुरङ्गकदृशश्चश्चलचेलाञ्चलो भाति । सपताकः कनकमयो विजयस्तम्भः स्मरस्येव ॥ १३७ ॥' अत्र विजयस्तम्भस्य बहुवाचकत्वाजात्युत्प्रेक्षा। जाने मौनं. क्षमा शक्ती, त्यागे श्लाघाविपर्ययः। गुणा गुणानुबन्धित्वात्तस्य सप्रसवा इव ॥ १३८ ।। इत्यत्र सप्रसवत्वं गुणः। शेषः । ताः षोडशविंधाः । च । निमित्तस्य । पुनः। गुणक्रियास्वरूपत्वात् गुणखरूपत्वात् क्रियाखरूपत्वाचे. त्यर्थः । द्वात्रिंशद्विधताम् । यान्ति । इदमुक्तम्-उत्प्रेक्षा तावद् द्विविधा, वाच्या, प्रतीयमाना चेति । इवादीनां प्रयोगे वाच्या, तेषामप्रयोगे पुन: प्रतीयमाना । एवं द्विविधाऽप्येषा जातिगुणक्रियाद्रव्याणामप्रकृतानामध्यवसेयतया प्रत्येकं चातुर्विध्येनाष्टविधा, अष्टविधाऽप्येवं प्रत्येकं भावाभिमानेन अभावाभिमानेन च द्विधा षोडशविधा सम्पद्यते । एषेत्थं षोडशविधाऽपि निमित्तस्य जातिस्वरूपत्वेन क्रियास्वरूपत्वेन चेति द्विधा भिद्यमाना द्वात्रिंद्विधा सम्पद्यते । इति ॥ ९३ ॥ ९४ ॥ ९५ ॥ एवं द्वात्रिंशद्विधाया एतस्या विविक्तोदाहरणप्रदर्शने विस्तरभयमाशङ्कयाह-तत्र तासु मध्ये । वाच्योत्प्रेक्षायाम् । सत्यर्थे सप्तमी। दिङमात्रम् । उदाहरणम् । यथा-'कुरङकशोऽल्पः कुरङ्गो मृग इति कुरङ्गकस्तदृशाविव दृशौ यस्यास्तस्याः, मृगशावाक्ष्या इति भावः । चश्चलचेलाञ्चलश्चञ्चलं चेलाञ्चलं सूक्ष्मवस्त्रं यत्र तथोक्तः । ऊरुः । स्मरस्य । सपताकः पताकासहितः । कनकमयः सुवर्णघटितः । विजयस्तम्भः शत्रून् विजित्य खसर्वजेतृत्वसूचक आरोपितः स्तम्भविशेषः । इव । भाति । आ-छन्दः ॥ १३७ ॥ कथमियं जात्युत्प्रेक्षेत्याह-अत्र । विजयस्तम्भस्य । बहुवाचकत्वात् । जात्युत्प्रेक्षा । अयम्भावः-स्तम्भाना बहुत्वात् स्तम्भत्वं जातिः, 'एकत्वे सत्यनेकसमवेतत्वं जातिः' इति नियमात् । इवप्रयोगाच्चयं वाच्या, स्तम्भश्च भावपदार्थ इति भावाभिमानिन्येषा, उत्प्रेक्षानिमित्तं च नायिकोरोः सौन्दये गुणश्च । नवशब्दस्योपमोपकारकत्वमेवेति शङ्कयम्, 'मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादिभिः । उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः ॥' इत्यादिदण्डयुक्तदिशेवास्य सम्भावनावाचकत्वस्याप्यक्षतत्वात् । अत एव-'इवादिप्रयोग'इत्यादि कविराजैरप्युक्तम् । ___गुणोत्प्रेक्षामुदाहरति-'ज्ञाने । सत्यर्थे सप्तमी। मौनम् । शक्तौ । क्षमाऽपराधसहत्वम् । त्यागे दाने । श्लाघाविपर्यय आत्मप्रशंसोत्सुकत्वाभावः । इत्येवम्-तस्य दिलीपस्य । गुणा मौनादयः । गुणानुबन्धित्वाद ज्ञानादिगुणानुयायित्वात् । सप्रसवाः प्रसवाः सन्ततयस्तैः सहिताः । इव । 'आस निति शेषः । रघुवंशस्येदं पद्यम् ॥ १३८ ॥ - अत्र पूर्वतो वैलक्षण्यं दर्शयति-इत्यत्रेत्यादिना । स्पष्टोऽर्थः । अयम्भावः-अत्र इवप्रयोग इति वाच्येयम्, उत्प्रे क्षणीयो गुणः सप्रसवत्वम् । प्रसवस्य च भावरूपत्वाद्भावाभिमानिनीयमुत्प्रेक्षा, अस्या निमित्तं च गुण इति गुणनिमित्ता च । प्रसवस्य कुक्षिगर्भविभागरूपत्वात् विभागस्य च 'अथ गुणा रूपं रसो गन्धस्ततः परम् । स्पर्शः संख्या परिमितिः संयोगश्च विभागकः ॥' इत्युक्तदिशा गुणत्वमेव । ज्ञानादीनां मौनाद्यत्पादने प्रसषसम्भावना, ज्ञानादिसत्त्व एव मौनादीनां गुणत्वमिति ज्ञानादीनां मौनादिप्रयोजकत्वमवधेयम् । अत एवोक्तम् ‘गुणानुबन्धित्वादिति ।

Loading...

Page Navigation
1 ... 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910