Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi

View full book text
Previous | Next

Page 840
________________ २६२ । साहित्यदर्पणः। [ दशमःइदं मम -- 'व्याजस्तुतिस्तव पयोद ! मयोदितेयं सोवनाय जगतस्तव जीवनानि । स्तोत्रं तु ते महदिदं धन ! धर्मराजसाहाय्यमर्जयसि यत् पथिकानिहत्य॥ २०४॥' १४२ पर्यायोक्तं यदा भङ्गया गम्यमेवाभिधीयते । उदाहरणम्-- 'स्पृष्टास्ता नन्दने शच्याः केशसम्भोगलालिता। सावनं पारिजातस्य मञ्जर्यो यस्य सैनिकैः॥२०५॥' अत्र 'हयग्रीवेण स्वर्गो विजित'इति प्रस्तुतमेव गम्यं कारणं वैचित्र्यविशेषप्रतिपत्तये सैन्यस्य पारिजातमञ्जरीसावज्ञस्पर्शनरूपकार्य्यद्वारेणाभिहितम् । न चेदं कार्यात् कारणप्रतीतिरूपाsकलिताशयष्टयः । प्रागिव । विश्वस्ता विधवाः । 'विश्वस्ता विधवा समे।' इत्यमरः । अपि । द्विस्त्रियः । जाताः; इति गम्या स्तुतिः । राज्ञः स्तुतिरियम् । अतएव स्तुतेर्व्यङ्गयत्वमावश्यकमूह्यम् । अत्रााछन्दस्तल्लक्षणं चोक्तं प्राक् ॥ २०३॥ उक्तपद्यस्य स्वीयत्वं निर्दिशति-इदमित्यादिना । स्पष्टम् । 'हे पयोद मेघ ! तव । जीवनानि प्राणधारणाजलानि च । 'जीवनं सलिले प्राणधारणायां च जीविते ।' इति गोपालः । जगतो विश्वस्य । सञ्जीवनाय जीवितरक्षणाय । 'यज्जीवनायेति पाठे तु 'य'दिति पृथक पदम् । इति ( यत् ) इयम् । तव । व्याजस्तुतिक्जरूपा स्तुतिः। मया। उदिता। हे घन ! स्तोत्रं स्तुतिर्वास्तविकी प्रशंसा । तु । इदम् । ते । महत् । यत् । पथिकान् । निहत्य । 'पथिकार्पणेने ति पाठस्तु साधीयान् । धर्मराजसाहाय्यं धर्मराजस्य साहाय्यम् । अर्जयसि सम्पादयसि । अत्र स्तुत्या वाच्यया निन्दाया अवगमः । वसन्ततिलकं वृत्तम् , तल्लक्षणं चोक्तं प्राक् ॥ २०४ ॥' अत्राहः-'इयं चालङ्कारान्तरसङ्कीर्णाऽपि, यथा-" अये राजन्नाकर्णय कुतुकमाकर्णनयन ! स्फुरन्ती हस्ताम्भोरुहि तव कृपाणी रणमुखे । विपक्षाणां वक्षस्यहह तरुणानां निपतति प्रगल्भाः श्यामानामनुपरतकामाः प्रकृतयः ॥” इति, अत्र हि समासोक्त्यर्थान्तरन्यासपोषिता निन्दया स्तुतिः । ननु कथमिह व्याजेन स्तुतिः, वाच्याभ्यामेव निन्दास्तुतिभ्यां स्तुतिनिन्दयोर्गम्यत्वे तस्याः स्वीकारात्, समासोक्त्या च कामुकाव्यापारस्य निन्दनीयत्वेऽपि गम्यत्वात् न प्रकृतो. पयोगित्वम् । इति चेत् ! वाच्याभ्यामामुखे प्रतीयमानाभ्यामित्यर्थं गृहाण ।' इत्येके, अपरे तु 'गम्यया निन्दया गम्यायाः स्तुतेाजस्तुत्युपस्कारकत्वमेव न, व्याजस्तुतिर्हि वाच्यार्थीह विवक्षिता, न तु गम्या।' इति । पर्सायोक्तं लक्षयति-१४२ पायोक्तमित्यादिना । १४२ यदा भङयोक्तिवैचित्र्येण । गम्यं बोध्यम् । एव । अभिधीयते । तदा-पायोक्तं पर्यायेण प्रकारान्तरेणोक्तं कथनमिति तन्नामालङ्कार इति भावः । तथाऽऽहु:-'विवक्षितस्यार्थस्य भगवन्तरेण प्रतिपादनं पायोक्तम् ।' इति । उदाह काम आह-उदाहरणमिति । स्पष्टम् । 'यथा' इति शेषः । 'स्पृष्टा इत्यादि। 'नन्दने । यस्य हयग्रीवस्य दैत्यराजस्य । सैनिकः सेनास्थितैवारैः । शच्या इन्द्रपत्न्याः । केशसम्भोगलालिताः केशानां सम्भोगो भूषणं तस्मै लालिता प्रेम्णा वर्धिताः । ताः प्रसिद्धाः । पारिजातस्य कल्पवृक्षस्य । मचर्यः। सावनं साक्षेपम् । स्पष्टाः। 'स हयग्रीव'इति शेषः । मेण्ठकवेर्हयग्रीववधस्येदं पद्यम् ॥ २०५॥' भनयन्तरेणाभिधानं सप्रयोजनं निर्दिशति-अत्रेत्यादिना। अत्र । 'हयग्रीवेण तदाख्येन दैत्येन । स्वर्गः । विजितः।' इति । प्रस्तुतम् । एव । कारणम् । गम्यं व्यङ्गयम । वैचित्यविशेषप्रतिपत्तये वैचित्र्यविशेषस्याप्रस्तुतप्रशंसासमासोक्तिचमत्कारातिशयस्य प्रतिपत्तिरवबोधस्तस्यै । सैन्यस्य हयग्रीवयोवृसङ्घस्य । पारिजातमञ्जरीसायज्ञस्पर्शनरूपकार्य्यद्वारेण । अभिहितम् । अयम्भावः-हयग्रीवस्य सैनिकैनन्दनस्थाः शचीप्रियाः पारिजातमजयः सावज्ञं स्पृष्टा इत्यभिधानं हयग्रीवेण स्वर्गो विजित'इति प्रस्तुतं व्यञ्जयति, स्वर्गविजयमन्तरा शचीप्रियाणां तासां सावज्ञपरस्पर्शनासम्भवात् । अतः प्रकृतं स्वर्ग विजयमनभि ।

Loading...

Page Navigation
1 ... 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910