Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi

View full book text
Previous | Next

Page 862
________________ साहित्यदर्पणः। [दशमः. १६४ पूर्वपूर्व प्रति विशेषणत्वेन परम्परम् । स्थाप्यतेऽपोह्यते वा चेत्स्यात्तदैकावली द्विधा ॥ १३१॥ क्रमेणोदाहरणम्-'सरो विकसिताम्भोजमम्भोज भृङ्गसङ्गतम् । भृङ्गा यत्र ससङ्गीताः सङ्गीतं सस्मरोदयम् ॥ २५५ ॥' 'न तज्जलं यन्न सुचारुपङ्कजं न पङ्कजं तद् यदलीनषट्पदम् । न षट्पदोऽसौ न जुगुञ्ज यः कलं न जुञ्जितं तन्न जहार यन्मनः ॥२५६॥' क्वचिद्विशेष्यमपि यथोत्तरं विशेषणतया स्थापितमपोहितं च दृश्यते । यथा-'वाप्यो भवन्ति विमलाः स्फुटन्ति कमलानि वापीषु । · कमलेषु पतन्त्यलयः करोति सङ्गीतमलिषु पदम् ॥ २५७ ॥ एवमपोहनेऽपि। १६५ उत्तरोत्तरमुत्कर्षों वस्तुनः सार उच्यते ॥ काव्येन वाणी, तया लोकान्तःकरणानुरागरसिकः सभ्यः, सभा चामुना । दारिद्रयानलदह्यमानजगतीपीयूषधाराधरक्षो. णीनाथ ! तया भवांश्च भवता भूमण्डलं भासते ॥' इति, अत्र भासनधर्मेणान्वयः । एकावली लक्षयति-१६४ चेद यदि । पूर्वपूर्वम् । प्रति । परम्परमुत्तरमुत्तरम् । विशेषणत्वेनोपलक्षणेन विशेष्यत्वेन घेत्यर्थः । उपलक्षणे तृतीया। अत एव-'क्वचिद्विशेष्यमपी'त्यादि वक्ष्यति । स्थाप्यते विधीयते ।अपोह्यते निषिध्यते । वा। तदा 'स्थापनापोहनात्मकतया' इति शेष: । एकावली एकरूपेण विशेषणत्वेन विशेष्यत्वेन विहितानामपोहितानां वाऽऽवली पङ्क्तिस्तथोक्ता, तन्नामालङ्कार इति भावः । द्विधा । स्यात् ॥ १३१॥ उदाहर्तुमाह-क्रमेण । उदाहरणम् । तत्राद्या. यथा-'सरस्तडागः । विकसिताम्भोजम् । अम्भोज कमलम् । भृङ्गसङ्गतं भृङ्गभ्रमरैः सङ्गतम् । भृङ्गा अत्र 'भोभगो अघो अपूर्वस्य योऽशि ।' ८।३.१७ इति यत्वं तलोपश्च । यत्र । ससङ्गीताः सङ्गीतपराः । सङ्गीतं सुष्ठ गानम् । सस्मरोदयं स्मरोदयेन कामोल्लासकत्वेन सह वर्तत इति तथोक्तम् । अत्राम्मीजादीनि उत्तरोत्तरत्र विशेष्याणि पूर्वपूर्वत्र विशेषणात्मना विहितानि ॥ २५५ ॥' यथा वा-'पुराणि यस्यां सवराङ्गनानि वराङ्गनारूपपरिस्कृताङ्गथः । रूपं समुन्मीलितसद्विलासमात्रं विलासाः कुसुमायुधस्य ॥' द्वितीयामुदाहरति-'तत् । जलम्। न यत् । सुचारुपङ्कज सुचारूण्यत्यन्तं रमणीयानि पङ्कजानि यत्र तथोक्तम् । न । तत् । पङ्कजम् ।न । यत् । अलीनषट्पदं न लीनाः षट्पदा भ्रमरा यत्र तथोक्तम् । असौ। षट्पदः। न । यः। कलं रमणीयम् । न। जुगुञ्ज गुजितवान् । तत्त् । गुञ्जितम्मत्तभ्रमरशब्दः । न । यत् । मनः । न । जहाराचकर्ष । अत्र पङ्कजादीन्युत्तरोत्तरत्र विशेष्याणि जलादिफ विशेषणभूतात्मनाऽपोहितानि । भट्टेः पद्यमिदम् । अत्र वंशस्थविलं छन्दस्तल्लक्षणं चोक्तं प्राक् ॥ २५६ ॥' प्रकाशकारादिनाऽलक्षितामपि द्वितीयस्वरूपामेकावली दर्शयितुमाह-क्वचित् । विशेष्यम् । अपि । यथोत्तरमुत्तरमुत्तरं प्रति । विशेषणतया । उपलक्षणे तृतीयेयम् । स्थापितम् । अपोहितं निराकृतम् । च। दृश्यते । भावः- पूर्वपूर्व विशेषणं प्रत्युत्तरोत्तरं विशेष्यं यत् स्थाप्यतेऽपोह्यते वा, तत् उत्तरोत्तरं विशेष्यं प्रति पूर्वपूर्व विशेध्यमित्यय विवेकः । इति । उदाहरति-यथा। वाप्यः। विमलाः स्वच्छजलाः । भवन्ति । वापीषु । कमलानि । स्फुटन्ति विकसन्ति । अलयो भ्रमराः। कमलेषु । पतन्ति । अलिषु । सङ्गीतं सुन्दरं गानम् । पदमधिकारम् । करोति । अत्र वाप्यादय उत्तरोत्तरत्र विशेषणात्मानः पूर्वपूर्व विशेष्यतया वर्णिताः । अत्रार्याछन्दः ॥ २५७ ॥' एतदिग्दर्शनमित्याशयेनाह-एवमित्यादि । स्पष्टम् । यथा-'पुण्यक्षेत्रं न सर्वत्र पुण्यक्षेत्रे न नास्तिकाः । नास्तिकेषु न धर्मोऽस्ति न धर्म दुःखहेतुता ॥' इति, अत्र परंपरं विशेषणभूताः पूर्वपूर्व पुण्यक्षेत्रादयो विशेष्यतयाऽपोहिताः। सारं लक्षयति-१६५ वस्तुनो विशेष्यस्य । उत्तरोत्तरम् । उत्कर्षः । सारः । उच्यते । अत्र विकृति

Loading...

Page Navigation
1 ... 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910