Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi
View full book text ________________
३०२ साहित्यदर्पणः।।
[दशम:यथा-'मुनिर्जयति योगीन्द्रो महात्मा कुम्भसम्भवः ।
येनैकचुलुके दृष्टौ दिव्यौ तौ मत्स्यकच्छपौ ॥ ३९३ ॥ यथा वा--'आसीदञ्जनमत्रेति पश्यामि तव लोचने।
भाविभूषणसम्भारां साक्षात्कुर्वे तताक्रतिम ॥ २९४॥ न चायं प्रसादाख्यो गुणः, भूतभाविनोः प्रत्यक्षायमाणत्वे तस्याहेतुत्वात् । न चा तो रसः, विस्मयं प्रत्यस्य हेतुत्वात् न चातिशयोक्तिः। अध्यवसायाभावात् । न च भ्रान्तिमान्, भूतभाविनोभूतभावितयैव प्रकाशनात् । न च स्वभावोक्तिस्तस्य लौकिकवस्तुगतसूक्ष्मधर्मस्वभावस्यैव यथावद्वर्णनं स्वरूपम्, अस्य तु वस्तुनः प्रत्यक्षायमाणत्वरूपो विच्छित्तिविशेषोऽस्तीति यदि मुनवस्तुनः क्वचित्स्वभावोक्तावप्यस्या विच्छित्तेः सम्भवम्तदोभयोः सङ्करः।
'अनातपत्त्रोऽप्ययमत्र लक्ष्यते सितातपत्वैरिव सर्वतो वृतः।। अचामरोऽप्येष सदैव वीज्यते विलासवालव्यजनेन कोऽप्ययम् ॥ २९५ ॥
उदाहरति-यथा 'येन । एकचलके एकस्मिंश्चुलुके। तौ जगदाधारकत्वेन प्रसिद्धौ। अत एव-दिव्यौ। मत्स्यकच्छपौ। दृष्टौ । समुद्रस्यैकचुलुककरणे तत्रत्ययोर्भगवतोर्मत्स्यकच्छपयोरप्येतदन्तःपातित्वं दृष्टचरम् । स:योगीन्द्रः। महात्मा । कुम्भसम्भवः कुम्भः सम्भव उत्पत्तिस्थानं यस्य तथोक्तः । अगस्त्य इत्यर्थः । उर्वशी दृष्टोन्मथितेन्द्रियाभ्यां मित्रावरुणाभ्यां कुम्भे वीर्य सिक्तं, तत एतस्य जन्मेति पुराणप्रसिद्धम् । मुनिः। जयति । अत्र दिव्ययोर्मत्स्यकच्छपयोः प्रत्यक्षः ॥ २९३ ॥'
उदाहरणान्तरमपि निदर्शयति । यथा वा-अत्रानयोनॆत्रयोः। अञ्जनम् । आसीत् । इत्येवम् । तव । लोचने । पश्यामि | भाविभूषणसम्भारो भाविनो ये भूषणसम्भारा भूषणानां विशिष्टानि नेपथ्यानि यत्र ताहशीम् । तव । आकृति स्वरूपम् । साक्षात्कुर्वे । अत्र भूतभाविनोरुभयोरपि साक्षात्कारः । यथाऽऽहर्विवृतिकारा:'अत्र पूर्वार्धे भूतस्य परार्धे भाविनः प्रत्यक्षायमाणत्वं नयनशोभाविशेषवशेन अञ्जनं सौन्दर्यातिशयवशीकृतस्य धनिनः पत्युरादरातिशयेन भूषणसम्भारमनुमाय सख्या तथाऽभिहितं यथा भूतभाविनामप्यञ्जनभूषणसम्भारौ सन्निकृष्टश्रोतृणां प्रत्यक्षवद् भासेते।' इति ॥ २९४ ॥' यदि तु-अत्र सहृदयैश्चमत्कारो नानुभूयते, तर्हि-'जगदीश ! भवन्तमीक्षमाणो भुवनं प्रस्फुटमीक्षते न कस्तत् । यदभूदचरं चरं तथा वा ननु यद्भावि कदाऽपि यत्र तत्र ॥' इत्युदाहार्यम् । इदम्मम ॥
ननु सन्निकृष्टपदार्थस्य वर्णनेन तदा प्रत्यक्षायमाणत्वम् , यदा प्रसन्नार्थाः शब्दाः प्रयुज्यन्त इत्यत्र प्रसादगुण एवाङ्गीक्रियतामित्याशङ्कयाह-नचेत्यादि । स्पष्टम् । ननु तर्हि एवं विस्मयहेतुत्वमङ्गीकृत्याद्भतरसोऽङ्गीक्रियतामित्याशङ्कयाहनचेत्यादि । स्पष्टम् । 'विस्मयं चमत्कारम् (प्रत्यस्य भाविकस्य हेतुत्वाभावात् )। चमत्कारायोगे रसरूपत्वासम्भवादिति भावः ।' इति विवृतिकाराः । नन्वत्र वर्णनीयनिष्ठस्यातिशयविशेषस्य सद्भावेनातिशयोक्तिरेवाङ्गीक्रियतामित्याशङ्कयाहनचेत्यादि । स्फुटम् । अध्यवसायाभावादभेदारोपासत्त्वादिति भावः । ननु भूतभाविनोः प्रत्यक्षायमाणत्वम्भ्रममूलमेवेति भ्रान्तिमानेवाङ्गीक्रियतामित्याशङ्कयाह-नचेत्यादि । स्पष्टम् । ननु तर्हि वस्तुस्वाभाव्यमिति स्वभावोक्तिरेवाङ्गीक्रियतामित्याशङ्कयाह-स्वभावोक्तिस्तन्नामाऽलङ्कारः । च । न । हेतुमुपपादयति-तस्य स्वभावोक्त्यलङ्कारस्य । लौकिकवस्तुगतसुक्ष्मधर्मस्वभावस्य लौकिकवस्तुगतो यः सूक्ष्मो दुरूहरूपो धर्मस्वभावस्तस्य । एव। यथावद्याथातथ्येन । वर्णनम् । स्वरूपम् । अस्य भाविकस्य । तु । वस्तुनो वर्णनीयस्य पदार्थस्य । प्रत्यक्षायमाणत्वरूपः । विच्छित्तिविशेषो भिन्नश्चमत्कारः । अस्ति । इति 'ततोऽस्य भेद' इति भावः । अस्य क्वचित्स्वभावोक्त्यनुप्राणत्वमित्याह- यदि। पुनः । वस्तुनः। क्वचित् कस्मिंश्चिदुदाहरण इत्यर्थः । स्वभावोक्तौ। 'सत्या'मिति शेषः । अपि । अस्या भाविकसम्बन्धिन्याः । विच्छित्तेः। सम्भवः । तदा । उभयोः स्वभावोक्तिभाविकयोः। सडरः।
अलङ्कारसर्वस्वकृतोदाहृतं दूषयति-'अत्र । अयम् । अनातपत्त्रो नातपत्रं छत्रं यस्य तथोक्तः । अपि । सितातपत्नैः श्वेतच्छत्रैः । सर्वतः। वृतः । इव । लक्ष्यते । एषः। कोऽपि । अचामरोन चामरं यस्य तथोक्तः । अपि । सदा । एव । विलासवालव्यजनेन । अयं शुभावहो विधियथा भवेत्तथा । वीज्यते । यद्वा
Loading... Page Navigation 1 ... 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910