Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi

View full book text
Previous | Next

Page 878
________________ साहित्यदर्पणः। [दशमःभत्र कयाचित् कुङ्कुमभेदेन खलक्षितं कस्याश्चित् पुरुषायितं पाणौ पुरुषचिह्नखगलेखालेखनेन सूचितम् । इङ्गितेन यथा'सङ्केतकालमनसं विटं ज्ञात्वा विदग्धया । हसनेवार्पिताकूतं लीलापनं निमीलितम्॥२९०॥' अत्र विटस्य भ्रूक्षेपादिना लक्षितः सङ्केतकालाभिप्रायो रजनीकालभाविना पद्मनिमीलनेन प्रकाशितः। १८३ व्याजोक्तिर्गोपनं व्याजादुद्भिन्नस्यापि वस्तुनः ॥ १४५ ॥ यथा-शैलेन्द्रप्रतिपाद्यमानगिरिजाहस्तोपगूढोल्लस- . द्रोमाञ्चादिविसंष्ठुलाखिलविधिव्यासङ्गभङ्गाकुलः। आः शैत्यं तुहिमाचलस्य करयोरित्यूचिवान् सस्मितं शैलान्तःपुरमातृमण्डलगणदृष्टोऽवतादः शिवः ॥ २९१॥' बिन्दवो विपरीतसुरतजन्यश्रमबिन्दवस्तेषां प्रबन्धास्तैः । कण्ठे। भिन्नम्भेदं प्राप्तम् । कुङ्कमम् । दृष्टा । अत एवस्मित्वा । तन्व्याः स्ववयस्यायास्तस्या इति भावः । पुंस्त्वं पुरुषत्वम् । व्यञ्जयन्ती। पाणौ 'नायिकाया' इति शेषः । खद्धलेखां खङ्गस्य लेखा पक्तिस्ताम् । लिलेख लिखितवती । स्त्रीणां हस्तेऽलङ्कारार्थ चन्दनादिभिलतापत्रादेर्लेखनं सम्प्रदायः,अतस्तच्छलेन सख्याः पुरुषायितं सूचयितुं पुरुषहस्ते लेखनीया खगलेखा लिखितेति बोध्यम् । अनुकूलसुरते उत्तानाया नायिकाया मुखमण्डलाद्गलितानां स्वेदाम्बूनां पृष्ठे एव गमनम् , कण्ठे तेषां गमनं तु विपरीतसुरत एवेति 'वक्त्रस्यन्दी' त्यादिना सूचितम् । शालिनीछन्दः, तल्लक्षणं च यथोक्तम्, 'शालिन्युक्ता म्तौ तगौ गोऽब्धिलोकैः ।। इति ॥ २८९ ॥' उदाहृतमर्थ निर्दिशति-अत्रेत्यादिना । स्पष्टम् । अत्राहुः 'अत्र स्वेदलिङ्गकस्वानुमितिविषयस्य पुरुषायितत्वस्य खालेखालेखनेनाभिव्यजनम् । अत्र विद्यमानमप्यनुमानं सूक्ष्माङ्गम्, स्ववैदग्ध्यप्रकाशनद्वारा सूक्ष्मस्यैव चमत्कारित्वात् ।' इति । इजितात् सल्लक्षितस्य सूचनमुदाहतकाम आह-इडितेन । यथा 'विदग्धया चतुरया । हसन्नेत्रार्पिताकतं हसन्ती प्रसीदन्ती नेत्रे ताभ्यामर्पितं सूचितमाकूतं रहस्यं येन तादृशम् । विटं जारम् । सङ्केतकालममसं सङ्केतकाले मनो यस्य तादृशम् । सङ्केतसमयमवजिगमिषुम् । ज्ञात्वा । लीलापनं क्रीडाथै धृतं पद्मम् । निमीलितं सङ्को. चितम् ॥ २९॥ उदाहृतमर्थं निर्दिशति-अत्रेत्यादिना । स्पष्टम् । व्याजोक्तिं लक्षयति-१८२ उद्भिन्नस्य प्रकटितस्य । अपि । वस्तुनः । व्याजात् केनापि प्रतारणोपायेन । गोपनम् । व्याजोक्तिर्व्याजेनोक्तिरिति तन्नामाऽलङ्कार इत्यर्थः ॥ १४५ ॥ - उदाहरति-यथा-'शैलेन्द्र...शैलेन्द्रेण हिमालयगिरिणा प्रतिपाद्यमाना दीयमाना या गिरिजा पार्वती तस्या हस्तस्तस्योपगूढं सम्बन्धस्तेनोल्लसदुद्गच्छद् यद्रोमाञ्चादिःतेन विसंष्ठुलो ब्यग्रोऽव्यवस्थ इति यावत् योऽखिलविधिः समस्त. वैवाहिककर्तव्यत्वं तस्य व्यासङ्गस्तत्परता तस्य भङ्गस्तेनाकुलश्चकित इति तथोक्तः। उपगृहनमुपगूढम् , भावे क्तः । एवम्भूत एष-शैलान्तःपुरमातृमण्डलगणशैलस्य हिमाद्रेरन्तःपुरमवरोधस्तत्र यन्मातृमण्डलम्मेनकापरिवारस्तस्य गणास्तैः, यद्वा-शैलान्तःपुरं ( मेनका) च मातृमण्डलं (मातृणां ब्राह्मीवैष्णवीतत्सखीप्रभृतीनाम्मण्डलम् ) च गणः (देववृन्दं प्रमथादिगणो वा) चेति तैस्तथोक्तैः । सस्मितं मन्दहासपूर्व यथा स्यात्तथा । दृष्टः। आः कष्टम् । तुहिनाचलस्य हिमालयस्य । करयोः। शैत्यम् (कन्यादानसमये. हिमाचलकरयोः सम्बन्धे रोमाञ्चादिसात्त्विक भावभावगोपनायेदमुक्तम् )। इत्यूचिवान् । इत्येवं कथितवान् इत्यर्थः । शिवः। वो युष्मान् । अवतात् रक्षतात् । भवानीशङ्करयोवैवाहिकवृत्तस्य वर्णनं प्रस्तूयाशीर्वादोऽयम् । अत्र रोमाञ्चकम्पादिरूपेण कार्येण प्रकटितस्य पार्वतीविषयकस्य भावस्य शैत्यरूपकारणान्तरोद्भावनेन गोपनम् । शार्दूलविक्रीडितं वृत्तम् ॥ २९१ ॥'

Loading...

Page Navigation
1 ... 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910