Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi

View full book text
Previous | Next

Page 877
________________ परिच्छेदः ] रुचिराख्यया व्याख्यया समेतः। यथा--'हन्त सान्द्रेण रागेण भृतेऽपि हृदये मम । गुणगौर ! निषण्णोपि कथं नाम न रज्यसि ॥२८७ ॥' यथा वा--'गाङ्गमम्बु सितमम्बु यामुनं कजलाभमुभयत्र मजतः। . राजहंस ! तव सैव शुभ्रता चीयते न च, न चापचीयते ॥ २८८ ॥' पूर्वबातिरक्तहृदयसम्पर्कात् प्राप्तवदपि गुणगौरवाच्यस्य नायकस्य रक्तत्वं न निष्पन्नम् । उत्तरत्राप्रस्तुतप्रशंसायां विद्यमानायामपि गङ्गायमुनाऽपेक्षया प्रकृतस्य हंसस्य गङ्गायमुनयोः सम्पर्केऽपि न तद्रूपता। अत्र च गुणाग्रहणरूपविच्छित्तिविशेषाश्रयाधिशेषोक्तेर्भेदः। वर्णान्तरोत्पत्त्यभावाञ्च विषमात् । १८२ सँल्लक्षितस्तु सूक्ष्मोऽर्थ आकारेणेङ्गितेन वा ॥ १४४ ॥ कयाऽपि सूच्यते भङ्गया यत्र सूक्ष्मं तदुच्यते । सूक्ष्मः स्थूलमतिभिरसँल्लक्ष्यः । अत्राकारेण यथा-- 'वक्रस्यन्दिस्वेदबिन्दुप्रबन्धैदृष्टा भिन्नं कुङ्कम काऽपि कण्ठे.। पुंस्त्वं तन्न्या व्यञ्जयन्ती वयस्या स्मित्वा पाणी खड्नलेखा लिलेख ॥ २८९ ॥' उदाहरति-यथा-'हे गुणगौर गुणैर्गौरः शुद्धस्तत्सम्बुद्धौ तथोक्त ! । हन्त कष्टम् । सान्द्रेण । रागेणानुरागेण रक्तिम्णा च । भृते पूर्णे । अपि । मम । हृदये । निषण्णः । अपि । कथम् । नाम । न । रज्यसि रक्को भवसीत्यर्थः । अत्र रक्तस्थाने निषण्णत्वरूपे हेतौ सत्यपि रक्तत्वाग्रहणम् । कान्तं प्रति कस्याश्चिदुक्तिरियम्॥२८७॥' उदाहरणान्तरं निर्दिशति 'ह राजहंस ! गाई गङ्गासम्बन्धि । सितं शुभ्रम् । अम्बु जलम् । यामुनं यमुनासम्बन्धि । कज्जकाभ कज्जलस्याभेवाभा यस्य तत्तथोक्तम् । अम्बु जलम् । इत्येवम्भूते । उभयत्र गङ्गायमुनयोः सितासिताम्बुनीति भावः । मज्जता बाढ स्नातः । तव । सा सहजा । एव । शुभ्रता । असौ-च । न । चीयते गङ्गाजलसम्पण वर्धते। नच नवेत्यर्थः । अपच्चीयते हसति । अत्र मज्जनहेतुसत्त्वेऽपि सितासितत्वाग्रहणम् । रथोद्धतावृत्तं, तल्लक्षणं चोक्तं प्राक् ॥२८८॥ उभयत्र वैलक्षण्यं निर्दिशन् लक्षणं सङ्गमयति-पूर्वत्र पूर्वस्मिन्नदाहरण इत्यर्थः । अतिरक्तहृदयसंपर्कात अतिरक्तमत्यन्तमनुरक्तम् , अथ च-अत्यन्तं शोणवर्णम् , यत् हृदयं तस्य सम्पर्कस्तस्मात् । गुणगौरवाच्यस्य गुणगौरपदाभिधेयस्य । नायकस्य । प्राप्तवत् । अपि । रक्तत्वम् । न । निष्पन्नं जातम् । उत्तरोत्तरस्मिनुदाहरण इत्यर्थः । अप्रस्तुतप्रशंसायाम् । विद्यमानायाम्। अपि 'प्रकृतस्य पुरुषान्तरस्योदासीनत्वप्रशंसना'दिति शेषः । गङ्गायमुनाऽपेक्षया गङ्गायमुनासम्बन्ध्यम्ब्वपेक्षया । 'प्रतिपाद्यत्वेने ति शेषः । प्रकृतस्य । हंसस्य राजहंसस्य । गङ्गायमुनयोगङ्गायमुनासम्बन्ध्यम्बुनोः । सम्पर्के । अपि । तद्रूपता तयोर्गङ्गायमुनासम्बध्यम्बुनो रूपं तदिव रूपं यस्य तस्य भावस्तत्ता। न । ननु कारणसत्त्वे कार्यानुत्पत्तिरूपा विशेषोक्तिरेख किन्नेयं स्वीक्रियत इत्याशङ्कयाह-अत्रातद्गुणे ।च। गुणाग्रहणरूपविच्छित्तिविशेषाश्रयाद गुणस्याग्रहणं तद्रूपं यस्याः साऽसौ विच्छित्तिरलकारत्वजीवातुश्चमत्कारस्तस्या विशेषः प्रकारस्तस्याश्रयस्तस्मात् । विशेषोक्तेः । भेदः । विशेषोत्तौ हि कारणसत्त्वे कार्या नुत्पत्तिः, अतद्गणे गुणरूपकारणसत्त्वे गुणाग्रहणमित्येनयोर्भेद इति भावः । ननु रागादिरूपस्य गुणस्य सम्पर्काभावरूप. विरुद्धकार्यसत्तया विषममेवायं स्यादित्याह-वर्णान्तरोत्पत्त्यभावात् । विषमात्तन्नाम्नोऽलङ्कारात् । च 'भेद' इति पूर्वतोऽनुषज्यते । विषमे हि कारणगुणेभ्यो विरुद्धकार्यगुणोत्पत्तिः, अत्र च गुणोत्पत्त्यभाव एवेत्येनयोर्विशेष इति भावः । सूक्ष्मं लक्षयति-१८२ आकारेण नेपथ्यादिचेष्टितेन । इङ्गितेन भ्रवादिचेष्टितेन । वा । संल्लक्षितः। सूक्ष्मः सहृदयेतरैरसॅलक्ष्यः । अर्थः । तु । यत्र । कयाऽपि । भङ्गया प्रकारेण । सूच्यते । तत् । सूक्ष्मं तदाख्योऽलङ्कारः । उच्यते । सूक्ष्मपदार्थ निर्दिशति-सूक्ष्म इत्यादिना । स्पष्टम् ॥ १४४ ॥ ___अत्राकारेण संलक्षितस्य सूचनमुदाहर्तुकाम आह-अत्र आकारेण संलक्षितस्य सूचनम् । यथा काऽपि । वयस्या सखी । वक्रस्यन्दिस्वेदबिन्दुप्रबन्धैर्वक्रान्नायिकामुखात्तदुरलक्षितात स्थानात् । स्यन्दिनः प्रस्रवणशीला ये स्वेद.

Loading...

Page Navigation
1 ... 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910