________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः। यथा--'हन्त सान्द्रेण रागेण भृतेऽपि हृदये मम ।
गुणगौर ! निषण्णोपि कथं नाम न रज्यसि ॥२८७ ॥' यथा वा--'गाङ्गमम्बु सितमम्बु यामुनं कजलाभमुभयत्र मजतः।
. राजहंस ! तव सैव शुभ्रता चीयते न च, न चापचीयते ॥ २८८ ॥' पूर्वबातिरक्तहृदयसम्पर्कात् प्राप्तवदपि गुणगौरवाच्यस्य नायकस्य रक्तत्वं न निष्पन्नम् । उत्तरत्राप्रस्तुतप्रशंसायां विद्यमानायामपि गङ्गायमुनाऽपेक्षया प्रकृतस्य हंसस्य गङ्गायमुनयोः सम्पर्केऽपि न तद्रूपता। अत्र च गुणाग्रहणरूपविच्छित्तिविशेषाश्रयाधिशेषोक्तेर्भेदः। वर्णान्तरोत्पत्त्यभावाञ्च विषमात् ।
१८२ सँल्लक्षितस्तु सूक्ष्मोऽर्थ आकारेणेङ्गितेन वा ॥ १४४ ॥
कयाऽपि सूच्यते भङ्गया यत्र सूक्ष्मं तदुच्यते । सूक्ष्मः स्थूलमतिभिरसँल्लक्ष्यः । अत्राकारेण यथा--
'वक्रस्यन्दिस्वेदबिन्दुप्रबन्धैदृष्टा भिन्नं कुङ्कम काऽपि कण्ठे.।
पुंस्त्वं तन्न्या व्यञ्जयन्ती वयस्या स्मित्वा पाणी खड्नलेखा लिलेख ॥ २८९ ॥' उदाहरति-यथा-'हे गुणगौर गुणैर्गौरः शुद्धस्तत्सम्बुद्धौ तथोक्त ! । हन्त कष्टम् । सान्द्रेण । रागेणानुरागेण रक्तिम्णा च । भृते पूर्णे । अपि । मम । हृदये । निषण्णः । अपि । कथम् । नाम । न । रज्यसि रक्को भवसीत्यर्थः । अत्र रक्तस्थाने निषण्णत्वरूपे हेतौ सत्यपि रक्तत्वाग्रहणम् । कान्तं प्रति कस्याश्चिदुक्तिरियम्॥२८७॥'
उदाहरणान्तरं निर्दिशति
'ह राजहंस ! गाई गङ्गासम्बन्धि । सितं शुभ्रम् । अम्बु जलम् । यामुनं यमुनासम्बन्धि । कज्जकाभ कज्जलस्याभेवाभा यस्य तत्तथोक्तम् । अम्बु जलम् । इत्येवम्भूते । उभयत्र गङ्गायमुनयोः सितासिताम्बुनीति भावः । मज्जता बाढ स्नातः । तव । सा सहजा । एव । शुभ्रता । असौ-च । न । चीयते गङ्गाजलसम्पण वर्धते। नच नवेत्यर्थः । अपच्चीयते हसति । अत्र मज्जनहेतुसत्त्वेऽपि सितासितत्वाग्रहणम् । रथोद्धतावृत्तं, तल्लक्षणं चोक्तं प्राक् ॥२८८॥
उभयत्र वैलक्षण्यं निर्दिशन् लक्षणं सङ्गमयति-पूर्वत्र पूर्वस्मिन्नदाहरण इत्यर्थः । अतिरक्तहृदयसंपर्कात अतिरक्तमत्यन्तमनुरक्तम् , अथ च-अत्यन्तं शोणवर्णम् , यत् हृदयं तस्य सम्पर्कस्तस्मात् । गुणगौरवाच्यस्य गुणगौरपदाभिधेयस्य । नायकस्य । प्राप्तवत् । अपि । रक्तत्वम् । न । निष्पन्नं जातम् । उत्तरोत्तरस्मिनुदाहरण इत्यर्थः । अप्रस्तुतप्रशंसायाम् । विद्यमानायाम्। अपि 'प्रकृतस्य पुरुषान्तरस्योदासीनत्वप्रशंसना'दिति शेषः । गङ्गायमुनाऽपेक्षया गङ्गायमुनासम्बन्ध्यम्ब्वपेक्षया । 'प्रतिपाद्यत्वेने ति शेषः । प्रकृतस्य । हंसस्य राजहंसस्य । गङ्गायमुनयोगङ्गायमुनासम्बन्ध्यम्बुनोः । सम्पर्के । अपि । तद्रूपता तयोर्गङ्गायमुनासम्बध्यम्बुनो रूपं तदिव रूपं यस्य तस्य भावस्तत्ता। न । ननु कारणसत्त्वे कार्यानुत्पत्तिरूपा विशेषोक्तिरेख किन्नेयं स्वीक्रियत इत्याशङ्कयाह-अत्रातद्गुणे ।च। गुणाग्रहणरूपविच्छित्तिविशेषाश्रयाद गुणस्याग्रहणं तद्रूपं यस्याः साऽसौ विच्छित्तिरलकारत्वजीवातुश्चमत्कारस्तस्या विशेषः प्रकारस्तस्याश्रयस्तस्मात् । विशेषोक्तेः । भेदः । विशेषोत्तौ हि कारणसत्त्वे कार्या नुत्पत्तिः, अतद्गणे गुणरूपकारणसत्त्वे गुणाग्रहणमित्येनयोर्भेद इति भावः । ननु रागादिरूपस्य गुणस्य सम्पर्काभावरूप. विरुद्धकार्यसत्तया विषममेवायं स्यादित्याह-वर्णान्तरोत्पत्त्यभावात् । विषमात्तन्नाम्नोऽलङ्कारात् । च 'भेद' इति पूर्वतोऽनुषज्यते । विषमे हि कारणगुणेभ्यो विरुद्धकार्यगुणोत्पत्तिः, अत्र च गुणोत्पत्त्यभाव एवेत्येनयोर्विशेष इति भावः ।
सूक्ष्मं लक्षयति-१८२ आकारेण नेपथ्यादिचेष्टितेन । इङ्गितेन भ्रवादिचेष्टितेन । वा । संल्लक्षितः। सूक्ष्मः सहृदयेतरैरसॅलक्ष्यः । अर्थः । तु । यत्र । कयाऽपि । भङ्गया प्रकारेण । सूच्यते । तत् । सूक्ष्मं तदाख्योऽलङ्कारः । उच्यते । सूक्ष्मपदार्थ निर्दिशति-सूक्ष्म इत्यादिना । स्पष्टम् ॥ १४४ ॥ ___अत्राकारेण संलक्षितस्य सूचनमुदाहर्तुकाम आह-अत्र आकारेण संलक्षितस्य सूचनम् । यथा काऽपि । वयस्या सखी । वक्रस्यन्दिस्वेदबिन्दुप्रबन्धैर्वक्रान्नायिकामुखात्तदुरलक्षितात स्थानात् । स्यन्दिनः प्रस्रवणशीला ये स्वेद.