________________
२९८ साहित्यदर्पणः।
दशमः'सदैव शोणोपलकुण्डलानां यस्याम्मयूखैररुणीकृतानि ।
कोपोपरक्तान्यपि मानिनीनां मुखानि शङ्कां विदधुर्न यूनाम् ॥ २८४ ॥ अत्र माणिक्यकुण्डलानामरुणिमा मुखेष्वागन्तुकः।
१७९ सामान्यं प्रकृतस्यान्यतादात्म्यं सदृशैर्गुणैः । यथा--'मल्लिकाचितधम्मिल्लाश्चारुचन्दनचर्चिताः।
___ अविभाव्याः सुखं यान्ति चन्द्रिकास्वभिसारिकाः ॥ २८५ ॥' मीलिते उत्कृष्टगुणेन निकृष्टगुणस्य तिरोधानम् , इह तूभयोस्तुल्यगुणतया भेदाग्रहः ।
१८० तद्गुणः स्वगुणत्यागादत्युत्कृष्टगुणग्रहः ॥ १४३ ॥ यथा-'जमाद वदनच्छद्मपद्मपर्यन्तपातिनः।
नयन्मधुलिहः श्वैत्यमुदग्रदशनांशुभिः ॥२८६ ॥ मीलिते प्रकृतस्य वस्तुनो वस्त्वन्तरेणाच्छादनम्, इह तु वस्त्वन्तरगुणेनाक्रान्तता प्रतीयत इति भेदः।
१८१ तद्रपाननुहारस्तु हेतौ सत्यप्यतद्गुणः । । 'यस्यां नगर्याम् । सदा । एव । शोणोपलकुण्डलानां शोणा रक्ता उपला रत्नानि येषु तादृशानि यानि कुण्डलानि तेषाम् । मयूखैः किरणैः। अरुणीकृतानि रक्तिमानं नीतानि । मनिनीनाम। कोपोपरक्तानि कोपेन क्रोधनोपरक्तानि रक्तप्रभत्वं गतानि । अपि । मुखानि । यूनां कामुकानाम् । शङ्का कोपभयम् । न । विदधुश्चक्रः । कस्याश्चिन्नगा वर्णनमिदम् । अत्र माणिक्यप्रभया कोपरक्तिम्नो निगृहनम् । उपेन्द्रवजेन्द्रवज्रयोरुपजातिश्छन्दः, तल्लक्षणं चोक्तं प्राक् ॥ २८४ ॥' अत्र तिरोधायिकायाः कान्ते आगन्तुकत्वमित्याह-अत्रेत्यादि । स्पष्टम् ।
सामान्य लक्षयति-१७९ सदृशैः । गुणैः। प्रकृतस्य प्रस्तुतस्य वयस्येति यावत् । अन्यतादात्म्यमन्य. स्याप्रस्तुतस्य तादात्म्यमभिन्नत्वम् , नतु तिरोभावः । सामान्यं तदाख्योऽलङ्कारः।
उदाहरति-यथा-मल्लिकाचितधम्मिल्ला मल्लिकाभिः तृणशून्यपुष्पैराचिता अलङ्कृता धम्मिल्लाः संयताः कचा यास तथोक्ताः । 'तृणशुन्यं तु मल्लिका।' इत्यमरः । चारुचन्दनचार्चताश्चारु शुभ्रातिशयिततया सुन्दरं यत् चन्दनं तेन चर्चिताः कृतसङ्गिरागाः । अत एव-चन्द्रिकासु । अविभाव्या भिन्नत्वेनानिश्चेयाः । अभिसा. रिकाः कान्तसझाभिलाषेण सङ्केतस्थानगन्त्र्यो नायिकाः । सुखम् । यान्ति । अत्र चन्द्रिकासदृशैर्मल्लिकादिगुणचन्द्रिकाऽभिन्नत्वेनाभिसारिकाणां प्रत्ययः ॥ २८५॥' मीलितादस्य भेदं निर्दिशति-मीलित इत्यादिना । स्पष्टम् ।
तद्गुणं लक्षयति-१८० स्वगुणत्यागात् स्वस्य प्रस्तुतस्य गुणस्तस्य त्यागस्तस्मात् तं कृस्वेत्यर्थः । ल्यबर्थेयं पञ्चमी । अत्यस्कष्टगुणग्रहोऽत्युत्कृष्टस्याप्रस्तुतस्य गुणस्तस्य ग्रहो ग्रहणम् । तद्वणः सोऽत्युत्कृष्टो वस्त्वन्तरगतो गुणो यत्र तथोक्तः, तन्नामाऽलङ्कारः ॥ १४३ ॥
उदाहरति-यथा । 'वदनच्छद्मपद्मपर्यन्तपातिनो वदनं मुखं छद्म कपटो यस्य तादृशं यत् पद्मं तस्य पर्यन्तः तत्र पातिनस्तान् । मुखकमललुब्धानित्यर्थः । मधुलिंहो भ्रमरान । उदग्रदशनांशुभिरुद्रना उन्नता ये दशनांशवो दन्तकान्तयस्तैः । श्वैत्यम् । नयन् प्रापयन् (द्विकर्मकोऽयं धातुः ) । बलदेव इति प्रकृतोऽर्थः । जगाद । अत्र भ्रमराणां निकृष्टस्य मालिन्यस्य त्यागपूर्वकमुत्कृष्टस्य श्चैत्यस्य ग्रहणम् । शिशुपालवधस्येदं पद्यम्॥२८६॥' मनु उत्कृष्टेन निकृष्टस्य तिरोधानसाम्ये मीलितादस्य को भेदः ? इत्याशङ्कयाह-मीलित इत्यादि । स्पष्टोऽर्थः । अयम्भावः-मीलिते वस्तुनस्तिरोभावः, अत्र गुणमात्रस्येति विशेषः । इति । ... अतद्गुणं लक्षयति-१८१ हेतौ कारणे । सति । अपि । तद्रूपाननुहारस्तस्याप्रस्तुतस्य रूपं खरूपं तस्याननुहारोऽनुहाराभावो ग्रह्णाभाव इति यावत् । तु अतद्गुणस्तन्नामाऽलङ्कार इत्यर्थः । परगुणग्रहणसामग्रीसत्त्वेऽपि परगुणाग्रहणमतद्गुणों नामालङ्कार इति फालतोऽथः ।