________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः। - २९७ १७७ उक्त्वा चात्यन्तमुत्कर्षमत्युत्कृष्टस्य वस्तुनः ॥ १४१॥
कल्पितेऽप्युपमानत्वे प्रतीपं केचिदूचिरे । यथा-'अहमेव गुरुः सुदारुणानामिति हालाहल ! ताप्त ! मा स्म दृप्यः ।
मनु सन्ति भवादृशानि भूयो भुवनेऽस्मिन् वचनानि दुर्जनानाम् ॥ २८२॥' अत्र प्रथमपादे उत्कर्षातिशय उक्तः। तदनुक्तौ तु नायमलङ्कारः, यथा-'ब्रह्मेव ब्राह्मणो वदती'त्यादि।
१७८ मीलितं वस्तुनो गुप्तिः केनचित्तुल्यलक्ष्मणा ॥ १४२ ॥ अत्र समानलक्षणं वस्तु क्वचित्सहज, क्वचिदागन्तुक; क्रमेण यथा-- 'लक्ष्मीवक्षोजकस्तूरीलक्ष्म वक्षःस्थले हरेः । ग्रस्तं नालक्षि भारत्या भासा नीलोत्पलाभया॥२८॥
अत्र भगवतः श्यामा कान्तिः सहजा।
मतान्तरेण प्रतीपं लक्षयति-१७७ केचित । अत्युत्कृष्टस्य येन धर्मेण यदत्युत्कृष्टं तस्येति भावः । वस्तुनः। अत्यन्तम् । उत्कर्ष तेन धर्मणोत्कृष्टत्वम्। उक्ता कथयित्वा । च (इदं प्रकारान्तरबोधनार्थम् ) । उपमानत्वे । कल्पिते । अपि । 'तदपकर्षप्रत्यायन मिति शेषः । प्रतीपम् । ऊचिरे कथयामासुः । अयम्भावः-येन धर्मेण यदुत्कृष्टं तस्योपमानतयाऽप्रसिद्धस्यापि तेनैव 'धर्मेणोत्केषमभिधाय तस्यापकः द्योतयितुमुपमानत्वकल्पनमपि प्रतीपम् । इति ॥१४१ ॥ ___उदाहरति-यथा-'हे तात वत्स ! हालाहल ! सुदारुणानाम् । गुरुर्मुख्यः । अहम् ( हालाहलः ) । एव । इति । त्वम्-मा। स्म। दृप्यो गर्व कृथाः । हेतु निर्दिशति-ननु । अस्मिन् । भुवने संसारे । भवाह'शानि भवत्सदृशानि । दुर्जनानाम्। वचनानि । भूयः पुनः । सन्ति । अत्र हालाहलस्यात्युत्कटदुःखहेतुत्केनोत्कर्षमभिधाय दुर्जनवचनोपमानत्वेन तस्याप्रसिद्धस्यापि उपमानत्वं कल्पयित्वाऽसदृशत्वनिराकरणेन तिरस्करणम् । एवं च तिरस्कारफलकोपमानापकर्षबोधानुकूलव्यापारस्य स्फुटं समन्वयः । मालभारिणीछन्दः, तल्लक्षणं च यथोक्तम्-'विषमे ससजा यदा गुरू चेत्सभरा येन तु मालभारिणीयम् । ' इति ॥ २८२॥' ... नन्वत्रोपमैव किं न स्वीक्रियत इत्याशङ्कयाह-अत्रोदाहृते पद्ये । प्रथमपादे । उत्कर्षातिशयोऽत्युत्कटदुःखहेतुत्वेनासदृशत्वोक्तिमूलोऽतिशयः । उक्तः। तदनुक्तौ । तु । अयं प्रतीपाख्यः । अलङ्कारः । न । यथा।'ब्राह्मणः। ब्रह्मा । इव । वदति ।' इत्यादि । इदमुक्तम्-'ब्रह्मैवे'त्यादौ उपमैव, नतु प्रतीपालङ्कारः, अत्र य प्रतीपमेव, न तूपमा; उपमानत्वेनाभिधास्यमानस्य हालाहलस्यात्युत्कर्षाभिधानात्, तत्र च ब्रह्मणोऽत्युत्कर्षानभिधानाच्च । इति ।
मीलित लक्षयति-१७८ केनचित् । तुल्यलक्ष्मणा तुल्यं लक्ष्म यस्य तथोक्तेन, सदृशेन वस्तुनेति भावः । वस्तुनः । गुप्तिस्तिरोभावोऽलक्षितत्वमिति यावत् । मीलितं तदाख्योऽलङ्कारः ॥ १४२ ॥
येन निगृहनं तस्य द्वैविध्यं निर्दिशति-अत्रेत्यादिना । स्पष्टम् । अत एवाहुः-'समेन लक्ष्मणा वस्तु वरतुना यन्निग. ह्यते । निजेनागन्तुना वाऽपि तन्मीलितमिति स्मृतम् ॥' इति । एवं च-तुल्यस्वरूपयोरपि वस्तुनोरेकस्थ व वतोऽन्येन वा केनापि हेतुनोत्कृष्टत्वं सम्भवति तेन यदि अपरस्य वस्तुनस्तिरोधानम्भवेत् तर्हि मीलितं नामालङ्कारः । उत्कर्षस्य च द्विविधतयाऽस्यापि द्विविधत्वम् । इति फलितम् ।
उदाहत्तुमुपक्रमते-क्रमेण । यथा-'भारत्या सरस्वत्या सपत्न्येति भावः (कर्तृपदमिदम् ) । हरेर्नारयणस्य । नीलोत्पलाभया नीलोत्पलस्याभेवाभा यस्यास्तया तथोक्तया। भासा कान्या । ग्रस्तं तिरोहितम् । वक्षःस्थले। लक्ष्मीवक्षोजकस्तूरीलक्ष्म लक्ष्म्या वक्षोजौ कुचौ तयोः (आलिङ्गनकाले समर्पितम् ) कस्तूरीलक्ष्म कस्तयाँ लक्ष्म चिह्नमिति तथोक्तम् ( इदं कर्मपदम् ) । न । अलक्षि । अत्र भगवतो देहप्रभया कस्तूरीलक्ष्मणो निगृहनम् । एतच्च-उत्कृष्टेन निकृष्टस्यैव सम्भवतीति बोध्यम्, अत एव-सामान्यादस्य भेदो वक्ष्यते ॥ २८३ ॥' तिरोधायिकाय भासः स्वाभाविकत्वमत्रोह्यमित्याह-अत्रेत्यादि । स्पष्टम् ।
३८