________________
२९६
साहित्यदर्पणः ।
प्रसिद्धस्योपमानस्योपमेयत्वप्रकल्पनम् ॥ १४० ॥ निष्फलत्वाभिधानं वा प्रतीपमिति कथ्यते ॥
१७६
क्रमेण यथा-
'वत्र समानकान्ति सलिले मग्नं तदिन्दीवरं मेघैरन्तरितः प्रिये! तव मुखच्छायानुकारी शशी । येsपि वमनानुसारिगतयस्ते राजहंसा गतास्वत्वादृश्य विनोदमात्रमपि में दैवेन न क्षम्यते ॥ २८० ॥ 'तद्वक्रं यदि मुद्रिता शशिकथा हा हेम, खा चेद् द्युतिस्तच्चक्षुर्यदि हारितं कुवलयैस्तच्चेत्स्मितं का सुधा । धिक् कन्दर्पधनुर्भुव यदि च ते किंवा बहु ब्रूमहे यत्सत्यं पुनरुक्तवस्तु विमुखः सर्गक्रमो वेधसः ॥ २८९ ॥' अत्र वादिभिरेव चन्द्रादीनां शोभाऽतिवहनात्तेषां निष्फलत्वम् ।
[ दशम:
संसृतिगर्त्तमध्ये नैतावता तव गमिष्यति पुत्रशोकः ॥' इति । यत्तक्तं गङ्गाधरकारैः - 'अत्र विचार्यते - हेतुत्प्रेक्षयैव गतार्थत्वान्नेदमलङ्कारान्तरम्भवितुमर्हति ।... हेतुतायाश्च स्फुटं प्रतीतेः । ' अस्मिन्नलङ्कारे हेतुत्वं निश्चीयमानम्, हेतूत्प्रेक्षायां तु सम्भाव्यमानमित्यस्ति विशेष इति चेत् ! प्रतीयमान हेतूत्प्रेक्षात्वापत्तेः । वाचकस्यैवादेरभावाद्धेतुत्वस्य निश्चीयमानतायास्तत्रापि वक्तुं शक्यत्वात् । 'अस्य किञ्चिदपकर्तुमक्षमः कायनिग्रहगृहीतविग्रहः । कान्तवकसदृशाकृर्ति कृती राहुरिन्दुमधुनाऽपि बाधते ॥' इत्यलङ्कारसर्वस्वकृतोदाहृते प्राचीनपयेऽपि भगवद्वैरानुबन्धादिव भगवद्वसदृशमिन्दुं राहुबधत इति प्रतीतेरुत्प्रेक्षैव गम्यमाना । 'मम रूपकीर्तिमहरद्भुवि यस्तदनुप्रविष्टहृदयेयमिति । त्वयि मत्सरादिव निरस्तदयः सुतरां क्षिणोति खलु ताम्मदनः ॥' इति कुवलयानन्दकारेणोदाहृते तु पये हेत्वंश उत्प्रेक्षांशश्वेत्युभयमपि शाब्दमिति कथङ्कारमस्यालङ्कारस्योदाहरणतां नीतमिदमायुष्मतेति न विद्मः । प्रतिपक्षगतबलवत्त्वस्वात्मगतदुर्बलत्वयोः प्रतीतेर्हेतूत्प्रेक्षान्तरादस्य वैलक्षण्यम् । नैतावता हेतूत्प्रेक्षाया बहिर्भवितुमिदमीष्टे, तदविनाभावात् । किंतु तदवान्तरविशेषीभवितुम् । नहि पृथिव्यवान्तरभेदाद्धात् पटो विलक्षण इति पृथिव्या बहिर्भवतीत्यपि वदन्ति ।' इति, तन्निराकृतं तस्यैव व्याख्यातृभिः 'हेतूत्प्रेक्षासत्त्वेऽपि तद्धेतुकप्रतिपक्षीयबाधे नैतद्विषयत्वाच्चिन्त्यमिदम् ।' इति ॥ २७९ ॥
प्रतीपं लक्षयति- १७६ प्रसिद्धस्य । उपमानस्य सादृश्यप्रतियोगिनः । उपमेयत्वप्रकल्पनमुपमेयत्वस्य सादृश्यानुयोगित्वस्य प्रकल्पनम् । वा यद्वा । निष्फलत्वाभिधानं व्यर्थत्वकथनम् । प्रतीपम् । इति । कथ्यते । । इदम्बोध्यम्-उपमानापकर्षानुभावको वाग्व्यापारः प्रतीपनामाऽलङ्कारः, स च द्विविधः, उपमानस्यापकर्षमनुभावयितुमुपमेयत्वेनाभिधानम्, निष्फलत्ववचनं चेति ॥ १४० ॥
उदाहर्तुमुपक्रमते - क्रमेणेत्यादि । स्पष्टम् । 'यत्त्वदित्यादि । व्याख्यातपूर्वमिदम् । अत्र नेत्रादेरुपमेयस्येन्दीवराद्युपमानं प्रसिद्धं, तस्य च वैपरीत्याभिधानात् प्रतीपम् ॥ २८० ॥
1
'यदि । तत् । वक्रम्मुखम् । तर्हि शशिकथा शशिनश्चन्द्रस्य कथोत्कर्षप्रत्यायिका चर्चेति तथोक्ता । मुद्रिता सङ्कुचिता नष्टेति यावत् । चेत् । सा । द्युतिः शोभा । तर्हि हे हेम स्वर्ण ! हा कष्टं त्वं मृतमिति भावः । यदि । तत् । चक्षुत्रम् । तर्हि - कुवलयैर्नीलकमलैः । हारितं पराभूतं पराभवोऽङ्गीकृत इति यावत् । चेत् । तत् । स्मितं मन्दहसितम् । तर्हि सुधा । का। यदि । च । ते । भ्रुवौ । तर्हि कन्दर्पधनुः कन्दर्पस्य कामस्य धनुस्तत्तथोक्तम् । धिक् । किंवा । बहु । ब्रूमहे कथयामः । यत् । वेधसो ब्रह्मणः । पुनरुक्तवस्तुविमुखः पुनरुक्तं पुनरुक्तिविषयं यद्वस्तु तस्मात् विमुखः शून्यः । सर्गक्रमः सृष्टिनियमः । इति तत् सत्यम् । सीतां ध्यायतो रावणस्येयमुक्तिः । तत्पदं च दृष्टपूर्वतत्तद्वैलक्षण्यसूचनार्थम् । हनुमन्नाटकस्येदम्पयम् । शार्दूलविक्रीडितं वृत्तम्, तल्लक्षणं चोक्तं प्राक् ॥ २८१ ॥ '
उदाहृतमर्थं निर्दिशति-अत्रेत्यादिना । स्पष्टम् ।